________________
५५४ ] खवासेढी
[गाथा-२६० कल्प्यते, तीन्या-ऽङ्गोपाङ्गादीनामिन्द्रियत्वव्यपदेशः केन वार्यते ? अन्याऽङ्गोपाङ्गादीनामिन्द्रियत्वस्वीकारे त्विन्द्रियसंख्या प्रतिनियता न स्यात् ।
'यच्च व्योमादीनां शब्दादितन्मात्रजत्वं प्रतिपादितम् , तदपि न सङ्गतम् ,प्रतीतिविरोधात ।
किश्च भवता शब्दादितन्मात्रं व्योमादिकार्यस्य परिणामिकारणं स्वीक्रियते, आकाशस्य च गुणोऽपि शब्द एवोररी क्रियते । तच्चाऽयुक्तम् , नहि परिणामिकारणं स्वकार्यस्य गुणो भवितुमर्हति, ततः “शब्दगुणमाकाश"मिति वाङ्मात्रमेव ।
यत्तु“यदा तु दुःखहेतुरियं प्रकृतिः,नाऽनया सह संसर्गो युक्तः इति विवेकख्यातिर्भवति,तदाप्रकृतिनिवर्तते" इत्याद्यक्तम् ,तदप्ययुक्तिकाऽभिधनाम् , तत्र हि केयं विवेकख्याति म ? प्रकृति-पुरुषयोः स्वेन स्वेन रूपेणाऽवस्थितयो देन प्रतिभासनमिति चेत् , सा कस्य, प्रकृतेः पुरुषस्य वा ? ततोऽन्यस्य सांख्यैरनभ्युपगमात् । न तावत् प्रकृतेः, विवेकख्यातेः 'प्रकृतेरहं पृथक्' इत्याकारकत्वेनैतादृशविवेकख्यातेः प्रकृतेरसंभवात् । नाप्यात्मनः, तस्य संवेदनधर्मरहितत्वात् । न च प्रकृतौ जायमानाऽपि सा पुरुष समारोप्यत इति वाच्यम् , प्रकृतस्तदसंभवस्योक्तत्वात् । अस्तु वा यस्य कस्यचिद् विवेकख्यातिः, किन्तु प्रकृतिर्यथा विवेकख्यातिजन्मतः प्राक कृतेऽपि शब्दाधुपलम्भे पुनस्तदर्थ प्रवर्तते,तथा विवेकख्यातौ जातायामपि पुनस्तदर्थं प्रवर्त्यति, प्रवृत्तिलक्षणस्य स्वभावस्याऽनपेतत्वात् । ___'यस्तु “यथा पारिषद्यान् नृत्यं दर्शयित्वा नृत्याद् नर्तकी निवर्तते"इति दृष्टान्त उपन्यतः,सोऽपि भवदिष्टविघातकारी, नर्तकी खलु यथा नृत्यं पारिषयेभ्यो दर्शयित्वा निवृत्ताऽपि तत्कुतूहलात् पुनः प्रवर्तते,तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्ताऽपि पुनः कुतो न प्रवर्तेत ?
अथ वदेत्-प्रकृतिः कुलवधूवद् लजाशीलाऽस्ति । तथाहि-असूर्यम्पश्या हि कुलवधूस्त्रपा-ऽऽक्रान्ता प्रमादाद् विगलितशिरोश्चला चेदालोक्यते परपुरुषेण, तदाऽसो तथा प्रयतते, यथा प्रमत्तामेनां पुरुषान्तराणि न पुनः पश्यन्ति । एवं प्रकृतिरपि कुलवधूतोऽप्यधिका विवेकेन न पुनद्रक्ष्यत इति, तदयुक्तम् , स्वभावत्यागस्याऽसम्भवात् । एतदुक्तं भवति-दृष्टाऽपि प्रकृतिः संसारदशावद् मोक्षेऽप्यात्मनो भोगाय स्वभावतो वायुवत् प्रवर्तत , प्रवृत्चात्मकस्वभावस्य नित्यत्वेन तदा-ऽपि सत्त्वात् । न खलु प्रवृत्तिस्वभावो वायुरन्येन दृष्टः सँस्तं प्रति निजस्वभावादुपरमति । ततश्च कुतो मोक्षः स्यात् १ तदा तत्स्वभावस्याऽसचे तु प्रकृतेर्नित्यकरूपताहानिः, पूर्वस्वभावत्यागेनोत्तरस्वभावोपादानस्य नित्यैकरूपतायां विरोधात् । ननु प्रकृतेः परिणामिनित्यत्वा-ऽभ्युपगमे न विरोध इति चेत् , उच्यते-प्रकृतेः परिणामिनित्यत्वं यथाऽभ्युपगम्यते, तथा-ऽऽत्मनो-ऽपि परिणामिनित्यत्वं स्वीक्रियताम् , तस्याऽपि प्राक्तनसुखाद्युपभोक्तृत्वस्वभावपरित्यागेन मोक्षे तदभोक्तृत्व(१) पृ० ५४९ पं० ९ (२) पृ० ५५० पं० २ । (३) पृ० ५५० ५० ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org