________________
श्रेणिप्रतिपत्तौ मतद्वयम् ] खवगसेढी
[५५५ स्वभावा-ऽभ्युपगमात् , अमुक्तत्वादिस्वभावपरिहारेण मुक्तत्वादिस्वभावोपादानाच । सिद्धे चात्मनः परिणामिनित्यत्वे सुखज्ञानादिपरिणामः परिणामित्वं तस्याऽभ्युपगन्तव्यम् , अन्यथा मोक्षाभावः । ततश्च साङ्ख्यपरिकल्पितो मोक्षो न घटां श्चति । किन्तु यथोक्तोऽनन्तसुखज्ञानादिस्वरूपः ।
यच्च 'प्रकृतिरेव नानाश्रय सती बध्यते संसरति मुच्यते चे" त्यादि प्रोक्तम् , तदप्यपेशलम् , यतो-ऽनादिभवपरम्परानुबद्धया प्रकृत्या सह पुरुषस्य यो विवेकाग्रहलक्षणोऽविष्वग्भावः, स एव बन्धपदार्थः, न तदन्यः कश्चित् । तस्मात् पुरुषस्य बन्धः । अथ च यस्य बन्धः, तस्यैव मोक्षः, बन्ध-मोक्षयोरैकाधिकरण्टाद । तस्मात् पुरुषस्यैव मोक्षः ।।२६७।।
(इति साढयस्वीकृतमोक्षस्वरूपप्रतिविधानम् ) तदेवं प्रतिपादिताः सिद्धानामष्टौ गुणा अनन्तज्ञानादयः। सम्प्रति श्रेणिप्रतिपत्ती मतद्वयं दिदर्शयिपुराह
एगभवे दो सेढी खलु कम्मग्गंथियाहिपायेणं । आगमअहिपायेणं पुण सेढी हवइ अण्णयरा ॥२६८॥
एकावे द्वे श्रेणी खलु कार्म:न्थिकाभिप्रायेण । ..
आगमाभिप्रायेण पुनः श्रेणिर्भवत्यन्यतरा ।।२६८॥ इति पदसंस्कारः। 'एगभवे' इत्यादि, 'एकभवे' एकस्मिन् भवे कार्मग्रन्थिकाभिप्रायेण खलु द्वे श्रेणी' उपशमश्रणिः क्षपकश्रेणिश्च भवतः। आगमाभिप्रायेण पुनरेकस्मिन् भवे 'अन्यतरा' उपशमश्रेणिक्षपकश्रेण्योरेकतरा श्रेणिभवति । अयं भावः-एकस्मिन् भव उत्कृष्टतो द्विरुपशमश्रेणिं प्रतिपद्यते जीव इति तूमयसम्मतम् । किन्तु काम पन्धिका आहुः-यस्मिन् भवे द्वौ वारा उपशमश्रेणिं यो जीवः प्रतिपद्यते, स एव तस्मिन् भवे हतीयवारमुपशमश्रेणि क्षपकश्रेणिं वा न प्रतिपद्यते । यस्त्वेकवारमुपशमश्रेणिं समारोहति, तस्य भवेद से क्षपकणिस्तस्मिन् भव इति । यदुक्तं सप्ततिकाचूर्णी-“उक्कोसेणं एगभवे दो वागओ उवसमसेटिं पतिवज्जति, जो दुवे वारे उवसमसेहिं पउिवज्जइ, तस्स णियमा तम्मि भवे खवगसेढी नत्थि । जो एकस्सि उवसमसेटिं पतिवज्जइ, तस्स स्व.गसेढो होजा वा ।" इति । सैद्धान्तिकास्त्वाहुःयस्मिन् भवे सकृदप्युपशमश्रेणिं यो जीवः प्रतिपद्यतेतस्मिन् भवे स क्षपकश्रेणिं न प्रतिपद्यत इति । यदुक्तं बृहत्कल्पभाष्ये
"एवं अप्परिवटि सम्मत्ते देवमणुयजम्मेसु ।
अन्नयरसेढिवज्जं भवेणं च सव्वाइं ॥१॥” इति । तथैवाऽन्यत्राऽप्युक्तम्
"मोहोपशम एकस्मिन् भवे दिः स्यादसन्ततम् । यस्मिन् भवे तपशमः क्षयो मोहस्य तत्र न ॥१॥” इति ॥२६८॥
(१) पृ०५५० पृ०११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org