SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ५५६ ] खवगसेढी [ गाथा २६९ ___ सम्प्रति शिष्यप्रशिष्यादिवंशे शास्त्रार्थस्याऽव्यवच्छेदायाऽन्तिममङ्गलं कुर्वन् स्वस्य चोपकारिणो गुरून् स्तुवन्नाह कम्ममलविमुको सिरिवीरो जयइ सिरिपेमसूरीसो। जयए तह तस्सिस्सो पण्णासो भाणुविजयक्खो ॥२६९॥ कर्ममलविमुक्तः श्रीवीरो जयति श्रीप्रेमसूरीशः। जयति तथा तच्छिष्यः पन्न्यासो भानुविजयाख्यः ॥२६९॥ इति पदसंस्कारः । 'कम्म'० इत्यादि कर्ममलविमुक्तः' कर्म-ज्ञानावरणादिकम् , तदेव मलं कर्ममलम् , तेन विमुक्तः विरहितः, क्षपकणिसरति शुक्लध्यानसलिलेन प्रक्षालित फर्ममल इत्यर्थः, 'श्रीवीरः' तत्र "राज दीप्तौ" विराजते शोभते धनघातिकर्मसंघातविदारणाऽनन्तरप्राप्तातुलकेवल श्रिया प्रकाशते वाऽनन्यमहातपस्तेजसेति वीरः, विपूर्वकराजधातोरोणादिकडप्रत्ययो दीर्घत्वं च बाहुलकात् । यद्वा "ईरिक गति-कम्पनयोः” वि=विशेषेण अपुनर्भावेन ईर्ते याति शिवं कम्पयत्यास्फोटयत्यपनयति कर्म वेति वीरः "लिहादिभ्यः” (सिद्धहेम० ५-१-५०) इत्यनेन सूत्रेण कर्तर्यचप्रत्ययः। यद्वा "ईरण क्षेपे" वि-कियत्क्षपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षिपति तिरस्करोत्यशेषाणि कर्माणीति वीरः, कर्तर्यचप्रत्ययः । यद्वा विदारयति कर्मारिसंघातमिति वीरः, पृषोदरादित्वाद् इष्टरूपनिष्पत्तिः, अथवाऽन्तरङ्गमोहमहीपतिमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वीरः । यदुक्तम् विदारयति यत्कर्म तपसा च विराजते । तपोवीर्ययुतस्तस्मादोर इति स्मृतः ॥१॥ इति । यद्वा "शूरचारभटो वीरो विक्रान्तश्चाथ ।"(श्लोकाङ्कः ३६५) इत्यभिधानचिन्तामणिकोशवचनात् वीरयति स्म कषायोपसर्गपरिपहादिशत्रुवर्गमभिभवति स्मेति वीरः,पूर्ववत् कर्तर्यचप्रत्ययः,यद्वा वीरयति स्म रागादिशत्रन् प्रति पराक्रमयति स्मेति वीरः,अच्प्रत्ययः पूर्ववत् । अथवा ईरणम् ईरः, "भावाऽकोंः ” (सिद्धहेम० ५-३-१८) इत्यनेन भावे घञ्प्रत्ययः, ज्ञानमित्यर्थः, “सर्वे गत्यर्था ज्ञानार्थाः" इति वचनात् । ततो वि-विशिष्ट ईरो ज्ञानं यस्य, स वीरः, आभिरुक्ताभिव्युत्पत्तिभिर्भगवतश्वरमजिनेश्वरस्य स्वार्थसम्पदं बोधितवान् । यद्वा ण्यन्तईरधातुः,वि-विशेषेण ईरयति-मोक्षं प्रति भव्यप्राणिनो गमयतीति वीरः, कर्तर्यचप्रत्ययः पूर्ववद् । यदिवा वि= विशिष्टा निखिलभुवनजनमनश्चमत्कारिणी ई: लक्ष्मीः तां राति भव्येभ्यः प्रयच्छतीति वीरः, "रांक दाने"इति धातोः"आतो डोऽहावामः” (सिद्धहेम० ५.१-७६) इत्यनेन सूत्रण कतरि डप्रत्ययः। आभ्यां द्वाभ्यां व्युत्पत्तिभ्यां भगवतः परार्थसम्पत्तिं ज्ञापितवान् । श्रिया समस्तजगजन्तुजातचेतश्चमत्कारिपरमार्हन्त्यमहामाहात्म्यविस्तार्यशोकवृक्षायष्टमहाप्रातिहार्यशोभया चतुस्त्रिंश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy