________________
ग्रन्थस्य पदार्थसंग्रहकाराः ] खवगसेढी
[ ५५७ दतिशयशोभया वा लोकालोकाकल्पितभावकलापकलनैककुशलविमलकेवलज्ञानलक्ष्म्या वा युक्तो वीरः श्रीवीरः,जयति इन्द्रिय-विषय-कषाय-परिषहोपसर्ग-घातिकर्मादिशत्रुगणपरिजयात् सर्वानप्यतिशेते । __अथ स्वस्योपकारिणो गुरुवर्यान् स्तौति-'सिरि०' इत्यादि, 'श्रीप्रेमसूरीशः' श्रीमद्विजयप्रेमसूरीश्वरो 'जयति' इन्द्रियविषयादिरिपुपरिजयाद् अतिशेते । अयं भावः-चरमतीर्थपतेः श्रीवर्धमानस्वामिनः पट्टधरो गणभृत् श्रीसधर्मस्वामी जातः, तदनु पट्टधराः श्रीमज्जम्बूस्वामिप्रभवस्वामिप्रभृतयो जाताः । ततः क्रमेण श्रीवीरान त्रयःसप्ततितमः (७३ ) पट्टधरो न्यायाम्भोनिधिः प्रतिक्षिप्तलुम्पाकमतो विशुद्धचारित्रो विजयानन्दसूरीश्वरोऽभूत् । तत्पट्टधरो निःस्पृहशिरोमणि-सच्चारित्रचूडामणि-श्रीमद्विजयकमलसूरीश्वर आसीत् , तत्पट्टधरः पाठकवर्यश्रीमद्वीरविजयविनेयरत्न-परमगीतार्थऽशेषशेमुवीशालिकुलविद्वस्थमान-सकलागमरहस्यवेदि-भीमकान्तादिगुणगरिष्ठश्रीमद्विजयदानसूरीश्वरोऽभूत् । तत्पट्टवरः सिद्धान्तमहोदधि-कर्मशास्त्रनिष्णात-कर्मसिडि-संक्रमकरण--मार्गणाद्वारादिग्रन्थरचयितृ-श्रीमद्विजयप्रेमसूरीश्वरो विषयकपायेन्द्रियादिशत्रुगणपरिजयाद् अतिशेते । युक्ता हि तेषां स्तवना, प्रव्रज्याप्रदानसम्यग्ज्ञानदानादितस्तेषानासन्नोपकारित्वात् ।
___अथ स्वप्रगुरुं स्तोति 'तह'इत्यादि-'तथा'तथाशब्दः समुच्चये, 'तच्छिष्यः तस्य अनन्तरोक्तश्रीमद्विजयप्रेमसूरीश्वरस्य 'शिष्यः' अन्तेवासी पन्न्यासो "भानुविजयाख्यः" तपस्तेजसा निर्जितभानुधामा भानुविजयनामा स्यावादनयप्रमाणविशारद-प्रवचनप्रभावक-तपोरत्न-पञ्चसूत्र-ललितविस्तराधनेकग्रन्थविवेचको 'जपति' आचाम्लवर्धमानतपआदिविप्रकृष्टतपश्चरणेन तर्कशास्त्राध्ययनाध्यापनादिना च नक्तंदिवं विषयेन्द्रियादिरिपुनिकरपरिजयाद् अतिशेते ॥२६९।।
सम्प्रति क्षपकश्रेणिग्रन्थपदार्थसंग्रहकारान् प्राहइह खवणपयत्था संगहिया तस्सिस्ससुप्पसिस्सेहि । जयघोस-सुधम्माणंद-हेमचंद-गुणरयणेहि ॥२७०॥ इह क्षपणपदार्थाः सङ्गृहीतास्तच्छिष्य-सुप्रशिष्यैः ।।
जयघोष सुधर्मानन्द-हेमचन्द्र-गुणरत्नैः ॥२७०।। इति पदसंस्कारः । 'इह' इत्यादि,इह 'क्षपणपदार्थाः' प्रस्तुतत्वात् कर्मक्षपणापदार्थाः 'संगृहीताः' कर्मप्रकृतिसप्ततिका-कषायप्राभृतादि-तच्चूर्णि-तवृत्ति-तटिप्पनकादिभ्यः समाहृताः, कैः ? इत्याह'तस्सिस्स.' इत्यादि, 'तच्छिष्य-सुप्रशिष्यैः' तस्य पन्यासश्रीमद्भानुविजयस्य, शिष्यश्च सुप्रशिष्याश्च शिष्यसुप्रशिष्याः, तैः, 'जयघोष-सुधर्मानन्द हेमचन्द्र-गुणरत्नैः' तत्पुरुषगर्भद्वन्द्वसमा. सत्वात् पदैकदेशेन च पदसमुदायस्य गम्यमानत्वाद् मुनिश्रीजयघोषविजयेन शोभनेन मुनिश्रीधर्मानन्दविजयेन मुनिश्रीहेमचन्द्रविजयेन मुनिगुणरत्नविजयेन च मल्लक्षणेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org