________________
५५८ ]
खवगसेढी
[ गाथा. २७१
अयम्भावः- स्याद्वादनयप्रमाणविशारदधर्म देशना दक्ष - पन्न्यास श्रीमद्भानु विजयगणिवराणां शिष्यः प्रशान्तमूर्त्तिः स्वाध्यायरसिको मुनिश्रीधर्मघोषविजयः, तस्य शिष्यो दाक्षियनिधिरजुस्वभाव आगमकर्मप्रकृत्यादिग्रन्थपटुवैयावृत्त्यादिना लब्धगच्छाधिपतिप्रसादो मुनिश्रीजयघोषविजयः । तथोक्तपन्न्यासवर्याणां शिष्यः कर्मप्रकृतिप्रभृतिद्रव्यानुयोगे गणितानुयोगे चाऽप्रतिमशेमुषीशाली शङ्कोत्थानतत्समाधानकुशलो मुनिश्रीधर्मानन्दविजयः । तथोक्तपन्न्यासवर्याणां प्रथम शिष्यः पन्न्यासपदालङ्कृतः सम्पादितगच्छप्रीतिः स्वाध्यायचरण करणेष्वनन्य प्रेरकः श्रीमत्पद्मविजयगण्यासीत्, तच्छिष्यो देशनादक्षो गणितानुयोगेऽपि प्रत्युत्पन्नमतिः शान्तस्वभावो मुनिश्री हेमचन्द्र विजयः । तथा स्याद्वादनयप्रमाणविशारदादि विशेषणविशिष्टोक्तपन्न्यासर्याणां शिष्य मदीयगुरुवर्यो भीमभवोदध्युद्धारको ज्येष्टसहोदरचरोऽष्टमतप आदि विप्रकृष्टतपश्चारी मुनिमतल्लजो जितेन्द्र विजयः, तच्छिष्यो गुणरत्न विजयो मल्लक्षणः । एतैश्चतुर्भिर्मुनिभिः सुविहितगच्छनायक श्रीमद्विजयप्रेमसुरोश्वरप्राध्यापितैः कर्मप्रकृति - सप्तनिका- कषायप्राभृतादिग्रन्थेभ्यः कर्मक्षपणापदार्थाः संगृहीताः, न तु कपोलकल्पिताः । एतेन ग्रन्थस्य सर्वज्ञमूलकत्वं दर्शितम् || २७० ॥
अथ पदार्थसंग्रहानन्तरं किम् ? इत्याह
तत्तो य खवगसेढी जिएन्दसिस्सगुणरयणविजयेणं ।
रइया एत्थ बहुसुया किवाअ खलियं विसोहन्तु ॥ २७२ ॥
ततश्च क्षपकश्रेणिर्जितेन्द्र शिष्यगुणरत्न विजयेन ।
रचिता ऽत्र बहुश्रुताः कृपायाः स्खलितं विशोधयन्तु || २७१ || इति पदसंस्कारः । ' तत्तो' इत्यादि, 'ततः' कर्मक्षपणापदार्थसंग्रहणानन्तरं 'जितेन्द्र शिष्यगुणरत्नविजयेन' जितेन्द्रस्य = अनन्तरोक्तविशेषणविशिष्टस्य मुनिराजश्री जितेन्द्र विजयनाम्नः पूज्यगुगेः शिष्येण= अन्तेवासिना गच्छाधिपचरणयुगलमुपासमानेन गुणरत्नविजयेन मल्लक्षणेन ' क्षपकश्रेणिः ' प्रस्तुत ग्रन्थस्वरूपा रचिता ।
सम्प्रत्यात्मन औद्धत्यं परिहरन् बहुश्रुतेषु बहुमानं प्रकटयन् संशोधनविषये च प्रार्थनां विदधानः प्राह-'एत्थ' इत्यादि, 'अत्र' क्षपकश्रेण्याख्यग्रन्थे 'बहुश्रुताः ' आगमविदः 'कृपाया:' अत्र 'गम्ययपः कर्माधारे' (सिद्धहेम ० २-१-४५ ) इत्यनेन सूत्रेण कर्मणि पञ्चमी विभक्तिः, ममोपरि कृपां विधायेत्यर्थः, 'स्खलितं' कृतप्रयत्नस्याऽपि छद्मस्थस्याऽऽवरणादिसामर्थ्यादनाभोगकृतं स्खलनं ‘परिशोधयन्तु' अपनयन्तु यत्र स्खलनं स्यात्, तत्रेदं पदं न सम्यक् इदं तु सम्यगित्यश्रुतानुसारिपदमपनीय श्रुतानुसारिपदं प्रक्षिपन्तु, न पुनस्तैरुपेक्षारूपोऽप्रसादः कर्तव्य इति भावः ।
।। २७१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org