________________
वृत्तिकृतः श्रीवीरजिनादीनां प्रशस्तिः ] खवगसेढी
अथ प्रशस्तिः नौमि श्रीवीरनाथं गणधरसुनुतं पादयुग्मं यदीयं शक्रन्द्रादिधुनाथैः स्तुत इह भरते तीर्थनाथोऽन्तिमो यः । प्राप्ता भव्याश्च यस्यामृतसमवचसा बोधिरत्नं त्वनेके , प्रव्रज्यां यस्य पार्श्वे शिवसदनफलां चोररीकृत्य सिद्धाः॥१॥ (स्रग्धरा) आसीच्छी वीरविभोः पट्टे गणभृत् सुधर्मनामा सः । तचादर्शि विशालं यदृब्धं द्वादशाङ्गमद्भतम् ॥२॥ (गीतिः) . तत्पट्टधरा जैनप्रवचनलक्ष्म्या विलासिनो ददताम् । श्रीजम्बूस्वामि-प्रभवप्रभु-शय्यम्भवाद्याः शम् ॥३॥ (विपुलायर्या) यद्विद्याच्छवितो भगः किमुत खं भीत्याऽधिगम्याऽटति, । शुभ्रो यद्यशउच्चयः किमुत खे पर्येति चन्द्रच्छलात् । कारेहेतये व्यधुः किमुत ये कर्मप्रकृत्यायुधं दास्ते शिवशर्मसूरिगुरवः कर्मप्रणा बलम् ॥४॥ (शार्दूलविक्रीडितम् ) दृब्धः सप्तनिक.ग्रन्थो यैर्भङ्गातिपादकः । नित्यं मयि प्रसीदन्तु ते तद्ग्रन्थविधायिनः ॥२॥ (अनुष्टुप् ) संदर्भो निर्मितो यैर्गुणगणनिकरैः प्राभृतान्तः * कषायो यत्कीर्तिज्योतिषेदं त्रिभुवनभवनं शुभ्ररूपं चकास्ति । बह्वज्ञानेन मूढान् भुवनभविजनान् ये प्रकाशं च निन्युः, सत्सरीन्द्रान् स्तुवे तान् गुणधरविबुधान् कर्ममर्मापहत्यै ॥६।। (स्रग्धरा) संक्षिप्य शतकादीन् * यैर्निर्मितः पञ्चसंग्रहः । सर्वदा विजयन्तां ते, श्रीचन्द्रर्षिमहत्तराः ॥७॥ (अनुष्टुप्) श्रापारगतः प्रज्ञाशाली मगुप्रभुर्जयतु धीरः । श्रीनागहस्तिदेवो जयताच्छीकर्ममर्मविज्ञश्च ॥ ८॥
(गीतिः) दृब्धा चूर्णिर्जिनमतबुधैर्यैर्जनानां हिताय , श्रेणिश्रन्थे जडमतिरहं चूर्णिमाश्रित्य येषाम् । जातः शक्तो बलविरहितो यष्टियोगात् यथा स्यात् ,
कर्मज्ञांस्तान् शमदमयुतांश्चूर्णिकारान् स्तुवेऽहं ।। ९॥ (मन्दाक्रान्ता) * कषायप्राभृतप्रन्थः । ६ शतक-सप्ततिका-कषायप्राभृत-सत्कर्म-कर्मप्रकृतिप्रन्यान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org