________________
५४४] खबगसेढी
[ गाथा-२६७ कत्वाध्यारोपेणात्माभिसन्धानात्" इत्याधुक्तम् , तदपि वचनमात्रम् । एवमभ्युपगते कुतो नैरात्म्यदर्शनम् ? अथा-ऽस्ति शास्त्रसंस्कारजमिति चेत् , तर्हि नैकत्वाध्यवसायो-ऽस्खलद्रपः, ततः कुतो मुक्त्यर्थं प्रवृत्तिः ? किञ्चा-ऽसति पूवोत्तरज्ञानक्षणव्यापकेऽन्वयिनि द्रव्य आत्मनि स्वसंविदितैकत्व प्रत्ययस्य प्रत्यक्षस्या-ऽनुपपत्तिः स्यात् । अथाऽसत्यप्यात्मन्यारोपितैकत्वविषयः प्रत्ययः प्रादुर्भविष्यतीति चेत् , न, यतः स्वात्मनि 'यत् सत् , तत् क्षणिक मित्यनुमानात् क्षणिकत्वं निश्चिन्वतः समारोपितैकत्वविषयकविकल्पस्वरूपप्रत्ययस्य निवृत्तिप्रसङ्गः, निश्चया-ऽऽरोपमनसोविरोधात् । निवर्तत एवा-ऽऽरोपितैकत्वमिति चेत् , तर्हि 'सहजस्या-ऽऽभिसंस्कारिकस्य चात्मदर्शनस्या-ऽभावात् तदैव तन्मूलरागादिनिवृत्तितो मोक्षः स्यात् । न चायमेकत्वविषयः प्रत्ययः प्रतिसंख्यानेन निवर्तयितुमशक्यत्वान्मानसो विकल्पः । तथाहि अनुमानबलात् क्षणिकत्वं विकल्पयतोऽपि नैकत्वप्रत्ययो निवर्तते, प्रत्यक्षबुद्धित्वात् । शक्यन्ते तु प्रतिसंख्यानेन निवारयितुं कल्पनाः, न पुनः प्रत्यक्षबुद्धयः। ततो यथा-ऽश्वं विकल्पयतो-ऽपि गोदर्शनाद् न गोप्रत्ययात्मको विकल्पः, तथा क्षणिकत्वं विकल्पयतोऽप्येकत्वदर्शनाद् नैकत्वप्रत्ययात्मकविकल्पः । न चा-ऽयं प्रत्ययो भ्रान्तः,भ्रान्तत्वे तु सकलस्या-ऽपि प्रत्ययक्षस्य भ्रान्तत्वप्रसङ्गः,बाह्या-ऽभ्यन्तरेषु भावेष्वेकत्वग्राहकत्वेनैवाऽशेषप्रत्यक्षाणां प्रवृत्तिप्रतीतेः। ततश्च प्रत्यक्षस्याऽभ्रान्तत्वविशेषणं यदुक्तम् ,तदसंभाव्येव स्यात् । तदेवमेकत्वग्राहिणः स्वसंवेदनप्रत्यक्षस्या-ऽभ्रान्तस्य कश्चिदेकत्वमन्तरेण नोपपत्तिः तेन नैकत्वाभावः ।
किश्चाऽनुभूयमानस्या-ऽप्येकत्वस्या-ऽनेकत्वेन सह विरोधाभ्युपगमे ग्राह्यग्राहकसंवित्तिलक्षणविरुद्धरूपत्रयाध्यासितज्ञानस्यैकत्वविरोधः स्यात् , एकनीलाद्यर्थक्षणस्या-ऽपि चैकदा स्वपरकार्यजनकत्वाजनकत्वलक्षणविरुद्धधर्मद्वया-ऽध्यासितस्यैकत्वविरोधः प्रसज्येत ।
__ यच्च "नैरात्म्याभ्यासादिरूपो यत्नः कर्त्तव्यः” इत्युक्तम् , तदपि न सङ्गतम् , नहि नैरात्म्या-ऽभ्यासोऽपि कालान्तरा-ऽवस्थाय्यनुसन्धातारं विनोपपद्यते ।
तथा यो हि निगडादिभिर्बद्धः, तस्यैव मोक्षकारणपरिज्ञाना-ऽनुष्ठानाऽभिसन्धिव्यापारे सति मोक्ष इत्यैकाधिकरण्ये सत्येव बन्धमोक्षव्यवस्था लोके प्रसिद्धा । इह त्वन्यः क्षणो बद्धः, अन्यस्य च मुक्तिकारणपरिज्ञानम् , इतरस्य चा-ऽनुष्ठाना-ऽभिसन्धिर्व्यापारश्चेति वैयधिकरण्यात् सवेमयुक्तम् ।
किश्च सर्वो-ऽपि प्रेक्षापूर्वकारी 'किञ्चिदिदमतो मम स्यात्' इत्यनुसन्धानेनैव प्रवर्तते । इह च कस्तथाविधो मार्गा-ऽभ्यासे प्रवर्त्तमानो 'मोक्षो मम स्यादि' त्यनुसन्दध्यात्- किं क्षणः ? सन्तानो वा ? न तावत् प्रथमपक्षः, तस्यैकक्षणस्थायित्वेन निर्विकल्पतया चैतावतो व्यापारान्
(१) प्राम्यजनसम्बन्धिनः । (२) पण्डितजनसम्बन्धिनः । (३) पृ० ५४० पं० ९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org