________________
[५४३
बौद्धाभिमतमोक्षस्वरूपखण्डनम् ] मोक्षस्वरूपविचारः
किञ्च यद्यन्यत्वे-ऽपि कार्यकारणभावात् स्मृतेरुत्पत्तिरिष्यते, तदा शिष्या-ऽऽचार्यादिबुद्धीनामपि कार्यकारणभावसद्भावेन स्मत्यादिप्रसङ्गः, न चैकसन्तानत्वे सतीति विशेषणाद् नोक्तप्रसङ्ग इति वाच्यम् , भेदा-ऽभेदपक्षाभ्यां तस्योपेक्षणात् । तथाहि-क्षणपरम्परातस्तस्या-ऽभेदे हि क्षणपरम्परैव सः । तथा च सन्तान इति न किञ्चिदतिरिक्तमुक्तं स्यात् । भेदे तु किं पारमार्थिको-ऽपारमार्थिको वा-ऽसौ भेदः ? अपारमार्थिकत्वेऽस्य तदेव दूषणम् , अकिश्चित्करत्वात् ।
पारमार्थिकत्वे किं स्थिरो वा क्षणिको वा ? क्षणिकत्वे सन्तानिनिर्विशेषो-ऽयम् । स्थिरश्चेत् , .. आत्मैव संज्ञान्तरेण प्रतिपन्न इति ।
एवं स्मृतिर्न घटतेऽन्वयिद्रव्या-ऽऽत्माभावे । अपि च स्मृत्यभावे निहितप्रत्युन्मार्गणप्रत्यर्पणादिव्यवहाराणां लोपः स्यात् ।
'यच्चोक्तं “मुक्तिस्त्वात्मदर्शिनो न भवत्येव, यतो य आत्मानं स्थिरत्वादिरूपं पश्यति" इत्यादि, तत् सत्यम् , किन्त्वज्ञो जनो यः स्वं स्थिरं मन्यमानो दुःखानुषक्तं च साधनं स्थिरसुखसाधनत्वेन पश्यन् स्नेहात् सांसारिकेषु सुखसाधनेषु प्रवर्तते, अपथ्यादौ मूर्खाऽऽतुरवत् , तस्यैव मुक्तिन भवति, यस्तु हिताहितविवेकज्ञोऽताचिक-तादात्विकसुखसाधनं स्व्यादिकं परित्यज्यात्मस्नेहात् ताचिका-ऽऽत्यन्तिकसुखसाधने मोक्षमार्गे प्रवर्तते, पथ्यादिषु चतुरातुरवत् , तस्य मुक्तिर्निष्प्रत्यूहैव । उक्तञ्च
__ "तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते।
हितमेवानुरुध्यन्ते प्रपरोक्ष्य परीक्षकाः॥१॥ इति । यच्च "पूर्वपूर्वविज्ञानक्षणानामेवोत्तरोत्तरविज्ञानक्षणं प्रति कारणत्व"मित्युक्तम् , तदप्यन्वयिद्रव्यस्वीकृत्यैवोपपन्नम् , अन्वयिद्रव्याऽस्वीकारे तु बन्धमोक्षादिव्यवस्थाऽपि नोपपद्यते । निरन्वये हि चित्सन्ताने-ऽन्यो बद्धः, अन्यश्च मुच्यत इत्यापद्यते। अथ सन्तानैक्याद् बद्धस्यैव मुक्तिः ? इति चेत् , न, यतो यदि सन्तानोऽक्षणिकपरमार्थसन् , तदा-ऽऽत्मैव सन्तानशब्देन प्रोक्तः, अथ संवृत्तिसन् , तदा सन्तानस्य परमार्थासचाद् अन्यो बद्धोऽन्यश्च मुच्यते' इति तदवस्थम् । ततश्च बद्धस्य मुक्त्यर्थः प्रयासो न स्यात् ।
यच्च "पूर्वपूर्वज्ञानक्षणानां तत्तदतिशयवत्त्वेन"इत्यायुक्तम् ,तदपि कथमुपपद्येत, यद्यतिशया-ऽऽधायकत्वेना-ऽवस्थितमन्वपिद्रव्यं न स्वीक्रियेत ? न च सन्ताना-ऽपेक्षया-ऽतिशयो युक्त इति वाच्यम् , तस्यैवा-ऽवास्तवत्वात् ।
"यच्च “निरन्वयचित्सन्तत्यामुत्तरोत्तरक्षणानामत्यन्तनानात्वेऽपि दृढतरै(१) पृ० ५३८ पं० २८ (२) पृ० ५३९ पं० २४ (३) पृ० ५३९ पं० ३० (४) पृ० ५४० पं० ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org