SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ खत्रगढी [ गाथा-२६७ पदार्थदर्शनप्रबोधितप्राक्तन संस्कारस्य हीन्द्रियव्यापारवतः प्रमातुः स एवायमि' त्याकारेण प्रत्यभिज्ञा समुत्पद्यते । ननु स्यादयं दोषः, यद्यविशेषेणाऽन्यदृष्टं परः स्मरतीत्युच्येता-ऽस्माभिः । अस्मत्कथनं त्वेवम्-स्मरणक्षणस्याऽनुभवकारिक्षणेन सह कार्यकारणभावस्वीकारात् स्मृतिरुपपद्यते । तत्रैकसन्तानपतितानां क्षणानां तदुत्पत्तिसम्बन्धेन सम्बद्धानां पूर्वोत्तरक्षणयोर्हेतुहेतुमद्भावो निर्विवादः । तथा चानुभूतविज्ञानक्षणस्य स्वसन्तानेऽनुभवात्मकरमृतिबीजाधापकत्वम् । अतो नानुपपत्तिः स्मरणस्य, कालान्तरे स्मृत्यात्मककार्योत्पत्तेः । तदुक्तं बोधिचर्यावतारपञ्जिकायाम् - "कार्यकारणभावप्रतिनियमादेव स्मृत्य भावो ऽपि निरस्तः । एकस्यानुगमात्मनो ऽभावात् न स्मर्ता कश्चिदिह विद्यते, किं तर्हि ? स्मरणमेव केवलमारोपवशात् स्मर्यमाणवस्तुविषयम् । न च अत्र स्मर्तुरभावेऽपि कश्चिद् व्याघातः । अनुभूते हि वस्तूनि विज्ञानसंताने स्मृतिबीजाssधानात् कालान्तरेण संततिपरिपाकहेतोः कार्यमुत्पद्यते ।' इति चेत्, न, यतस्तादृशान्यत्वस्याऽपरान्यत्वाऽविशेषात् भवन्मते कारणस्य निरन्वयनाशाच्च कार्यस्येतरस्य च कारणेन सह समानरूपेणात्यन्तासम्बद्धत्वम् । फलतः कार्यवदितरस्यापि स्मरणत्वापत्तिः, इतरवद् वा कार्यस्याऽपि स्मरणत्वानुपपत्तिस्तदवस्थैव | नाम ५४२ ] अपि चानुभवक्षणस्य निरन्वयनाशात् तत्सन्ताने स्मृतिबीजाधानानुपपत्तिरेव, अन्यथा तत्सन्तान - तदितरसन्तानयोरनुभवक्षणासम्बद्धत्वाविशेषेणेतर सन्ताने कथं स्मृतिबीजाधानस्य नापत्तिः ? अपि च कार्यकारणभावात् स्मृतिरित्यत्र न कश्चिद् वादिप्रतिवादिप्रसिद्धो दृष्टान्तो ऽस्ति । ननु यथा रक्तकर्पासचीजे उप्ते फलं रक्तवर्णं लभ्यते, तथैव यस्मिन् सन्ताने वासनाऽधि - वसति, तत्रैव कर्मवासनायाः फलं भवति । यदुक्तम् "यस्मिन्नेव हि संताने आहिता कर्मवासना । फलं तत्रैव संघते कर्पासे रक्तता यथा || १ ||" इति । तदेवं सन्तानेऽनुभव-स्मरणयोरैकाधिकरण्यमिति चेत्, न यत एतत् सर्वमप्यसुन्दरम् साधनदूषणयोरसम्भवात् । तद्यथा - अन्वयाद्यसम्भवाद् न साधनम्, नहि 'यत्र यत्र कार्यकारणभाव:, तत्र तत्र स्मृतिः, कर्पासे रक्ततावदि' त्यन्वयः सम्भवति, ना-ऽपि यत्र यत्र स्मृत्यभावः, तत्र तत्र न कार्यकारणभावः' इति व्यतिरेकः । 'यत्र यत्रा -ऽन्यत्वम्, तत्र तत्र न स्मृतिरित्यत्र चासिद्ध्याद्यनुद्भावनाद् न दूपणम् । न हि 'ततोऽन्यत्वात्' इति हेतोः कर्पासे रक्ततावदित्यनेन कश्चिद् दोषः प्रतिपाद्यते भवन्मते कर्पास - स्याऽपि क्षणिकत्वेन कालभेदेन तस्या -ऽन्यत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy