________________
बौद्धाभिप्रेतमोक्षस्वरूपखण्डनम् ] मोक्षस्वरूपविचारः
[५४१ न च तपः कर्मशक्तीनां संकरेण क्षयकरणशीलमिति कृत्वैकरूपादपि तपसो विचित्रशक्तिकानां कर्मणां क्षय इति वाच्यम् , एवमभ्युपगमे स्वल्पक्लेशेनैवैकोपवासादिना-ऽप्यशेषस्य कर्मणः क्षयापत्तिः, अन्यथा शक्तिसाङ्कर्या-ऽनुपपत्तिः, अन्यत्रा-ऽप्युक्तम्
कर्मक्षयादिमोक्षः स च तपसस्तच कायसन्तापः। कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत् स्यात् ॥१॥ अन्यदपि चैकरूपं तचित्रक्षयनिमित्तमिह न स्यात् । तच्छक्तिसंकरक्षयकारीत्यपि वचनमात्रं तु ॥२।।
अक्लेशात् स्तोकेऽपि क्षोणे सर्वक्षयप्रसङ्गो यत् ।" इति । तस्माद् नैरात्म्यभावनाप्रकर्षविशेषतो निरुपप्लवा चित्सन्ततिर्मोक्ष इति स्थितम् ।
अथ प्रतिविधीयते- 'यत् तावदुक्तम्-'ज्ञानक्षणप्रवाह.' इत्यादि, तदविचारिताऽभिधानम् , ज्ञानक्षणप्रवाहव्यतिरिक्तं मौक्तिककणनिकरानुस्यूतैकसूत्रकल्पमन्वयिद्रव्यमात्मानमन्तरेण कृतनाशा-ऽकृता-ऽऽगमादिदोषप्रसङ्गात् स्मरणाद्यनुपपत्तेश्च ।।
एतदुक्तं भवति–बौद्धास्तावज्ज्ञानक्षणपरम्परामात्रमेवात्मानं मन्यन्ते, न तु मुक्ताफलजाता-ऽनुस्यूतैकसूत्रकल्पमेकमन्वयि द्रव्यम् । अतस्तन्मते पूर्वज्ञानक्षणेन यत् सदनुष्ठानम् , असदनुष्ठानं वा कृतम् , तत्फलं न भुङ्क्ते पूर्वज्ञानक्षणः, तस्य निरन्वयविनष्टत्वात् । उत्तरक्षणेन च फलोपभोगस्वीकारे-ऽकृताऽऽगमः, तेन स्वयं तादृशानुष्ठानाकरणे-ऽपि तत्फलस्योपभोगात् ।
अथ संसारभङ्गदोषः-पूर्वकर्मानुसारेणैव जन्मान्तरं भवति । पूर्वज्ञानक्षणानां तु निरन्वयविनाशाद् न तेषां कश्चिदप्यभिसम्बन्ध उत्तरज्ञानक्षणैः सह । अतः केनोपभुज्यते पूर्वकर्माणि जन्मान्तरे ? तदुपभोगाऽभावे च किं जन्मान्तरम् ? तदभावे च संसारविलोपापत्तिः ।
मोक्षभङ्गदोषः-अपुनर्भावेन कर्मबन्धनाद् विमुक्तिर्मोक्षपदार्थः , स च बौद्धमते न घटते, आत्मन एवा-ऽभावात् । तथाहि-बौद्धमते-ऽन्वयिद्रव्यमात्मैव नास्ति, ततश्च कः प्रेत्य सुखीभवनाय यतिष्यते । संसारी ज्ञानक्षणः कथमपरज्ञानक्षणसुखाय घटिष्यते, ? न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः, क्षणस्य तु दुःखं स्वरसविनाशित्वात् तेनैव साधं ध्वस्तम् । न च सन्तानेन पूर्वोत्तरक्षणेषु सुख-दुःखाद्युपपत्तिरिति वाच्यम् , सन्तानस्या-ऽवास्तवत्वात् , वास्तवत्वे तु संज्ञान्तरेणा-ऽऽत्मन एवा-ऽभ्युपगमप्रसङ्गात् ।
___ अथ स्मृत्यनुपपत्तिः,-पूर्वबुद्ध्यनुभूते-ऽर्थे नोत्तरबुद्धीनां स्मृतिः सम्भवति, ततो-ऽन्यत्वात्, सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टो-ऽर्थो-ऽन्येन स्मर्यते,अन्यथैकेन दृष्टो-ऽर्थः सर्वैः स्मर्येत । स्मरणा-ऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः, तस्याः स्मरणाऽनुभवयोरुभयोः सतोरेव सम्भवात् ।
(१) पृ० ५३८ पं० २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org