________________
५४० ]
खबगसेढी
.. [गाथा-२६७ ऽविशिष्टादपि विशिष्टोत्पत्तेः स्वीकारात् । ततश्चा-ऽविशिष्टात् सुषुप्तज्ञानक्षणतः सोपप्लवज्ञानक्षणतश्च क्रमेण विशिष्टं जाग्रज्ज्ञानं निरुपप्लवज्ञानं चोत्पद्यते ।
___ न च नैरात्म्यदर्शनभावनामुपगच्छतां सौगतानां निरन्वयविनश्वरचित्सन्ततौ 'बद्धोऽहं मोक्ष्यामी'त्यादिकमुद्दिश्य यत्नो न स्यादिति वाच्यम् , अध्यवसायानुसारेणाऽपि यत्नात् ।।
एतदुक्तं भवति-न केवलं यथावस्त्वेव यत्नः, अपि तु यथाऽध्यवसायमपि । यथा रज्जुमपि सर्पत्वेनाऽध्यवस्यतस्तत्परित्यागः, तथैव बद्धोऽहं मोक्ष्यामीत्यादिव्यापारः स्यादेव । तथाहिनिरन्वयचित्सन्तत्यामुत्तरोत्तरक्षणानामत्यन्तनानात्वे-ऽपि दृढतरैकत्वाध्यारोपेणा-ऽऽत्माभिसन्धानात् तस्य मिथ्याऽध्यारोपस्य व्यवच्छेदार्थमसत्यपि निरंशादिस्वभावे मोक्तर्यात्मनि नैरात्म्याभ्यासस्वरूपो यत्नः कर्तव्यः । यदुक्तं प्रमाणवार्तिके
मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि ॥(१।१९४) नैरात्म्यभावनालक्षणयत्नविरहे त्वात्माभिसन्धाना-ऽनिवृत्तेरिन्द्रियादिषूपभोगकारणत्वेन गृही. तेष्विन्द्रियादिष्वात्मीयबुद्धेर्निवारयितुमशक्यत्वात् स्नेहसद्भावेन वैराग्यस्याऽसम्भवात् कुतो मोक्षः ? यदुक्तं प्रमाणवार्तिके
उपभोगाश्रयत्वेन गृहोतेष्विन्द्रियादिषु ।। स्वत्वधीः केन वार्येत वैराग्यं तत्र तत्कुतः ॥१॥ (१।२२९।)
नन्विन्द्रियादिपु नोपभोगाश्रयत्वबुद्धिनिबन्धनस्वत्वबुद्धित आत्मीयस्नेहो जायते . येनाऽयं दोषो भवेत् , किन्तु तत्र गुणदर्शनत आत्मीयस्नेहः प्रभवति,अतस्तद्विरुद्ध दोषदर्शने स्नेहनिवृत्तितो वैराग्यमुपपद्यते । इन्द्रियादिषु च दोषदर्शनं स्वयमेव भाव्यम् । एवं वैराग्योपपत्तैमुक्तिरप्युपपन्नेति चेत् , न, यत उपभोगाश्रयत्वबुद्धिनिवन्धनस्वत्वबुद्धित एव स्नेहस्याऽऽविर्भावोऽभ्युपगन्तव्यः । यथा-ऽऽत्मीयचक्षुरादिषु काणत्वादिदोषदर्शने-ऽपि स्नेहस्याविर्भावः, परकीयेषु चक्षुरादिषु गुणदर्शनेऽपि स्नेहाभावः । आत्मीयेष्वप्यतीतेषु स्वदेहच्युतेषु चाऽङ्गावयवेषु गुणदर्शनेऽप्यात्मीयबुद्धिपरित्यागाद् न स्नेहो भवति । तस्मादुपभोगाश्रयत्वबुद्धिनिबन्धनस्वत्वबुद्धितः स्नेहो भवति । ततश्च वैराग्यव्याहतिः, तद्वयाहतेश्च कुतो मोक्षः ?
न च तद्भावनाऽभावेऽपि कायक्लेशलक्षणतपसः सकलकर्मप्रक्षयाद् मोक्षो भविष्यति, किं नैरात्म्यभावनया ? इति वाच्यम् , यतः कायक्लेशस्य कर्मफलत्वेन नारकादिकायसन्तापवत् तपस्त्वमनुपपन्नम् । किञ्च विचित्रशक्तिकं कर्मभवति,अन्यथा विचित्रसुखदुःखप्रदानाद्यनुपपत्तिः स्यात् । तच्च कथमेकस्मात् कायक्लेशमात्रात् क्षयं गच्छेत् , अतिप्रसङ्गात् ? यदुक्तं प्रमाणवार्तिके
फलवैचित्र्यदृष्टश्च शक्तिभेदो-ऽनुमीयते । कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः ॥"(२-२७५) इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org