________________
बौद्धाभिप्रायेण मोक्षस्वरूपम् ]
मोक्षस्वरूपविचारः
: [५३९ तत्साधनेषु च दोषानुपेक्ष्य शुचित्वादिगुणानारोपयति । गुणांश्च पश्यन् ममेद'मित्याद्यध्यवस्मन् सुखसाधनान्युपादत्ते,ततो यावदात्मदर्शनम् ,तावत् संसार एव । यदुक्तंप्रमाणवार्तिके श्रीधर्मकीर्तिना
यः पश्यत्यात्मानं तत्राऽस्याहमिति शाश्वतः स्नेहः ॥ (१-२१९) स्नेहात सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते । गुणदर्शी परितृष्यन् ममेति सुखसाधनान्युपादत्ते ॥ (१-२२०) तेना-ऽऽत्माभिनिवेशो यावत् तावत् स संसारे। आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ।। (१-२२१) अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते।” इति ।
तथा च तदीया श्रीमनोरथनन्दिकृता वृत्तिः-"यः पश्यत्यात्मानं तत्राऽऽत्मनोऽस्य द्रष्टुरहमिति शाश्वतो-ऽनपायी स्नेहो भवति। स्नेहाद-आत्मस्नेहात्सुखेषु तृष्यतितृष्णावान् भवतीति, तृष्णा च सुखसाधनत्वेनाऽध्यवसितानां वस्तूनां दोषानशुचित्वादीन् तिरस्कुरुते प्रच्छादयति दोषतिरस्करणात् । गुणदर्शी-शुचित्वेनेष्टगुणान् पश्यन् परितृष्यन् ममेति ममेदं सुखमिति गर्ड मानस्तस्य-मुखस्य साधनानि गर्भगमनादीन्युपादत्ते । तेना-ऽऽत्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेश यावत्तावत् स आत्मदर्शी संसार एव । न केवलं जन्मप्रबन्धस्तस्य दोषा अपि समस्ताः सन्तीत्याह-आत्मनि सति ततोऽन्यस्मिन् परसंज्ञा-परबुडिर्भवति । स्वपरविभागाच्च कारणात् स्वपरयोर्यथाक्रमं परिग्रहो-ऽभिष्वङ्गो द्वेषः परित्यागस्तौ भवतः । अनयोरनुनयप्रतिषेधयोः सम्प्रतिबद्धाः सर्वे दोषारागमात्सर्येादयः प्रजायन्ते ।” इति।
नैरात्म्यभावनातस्तु निरुपप्लवचित्सन्ततिलक्षणो मोक्षो जायत एव ।
नन्ववच्छेदकतादिसम्बन्धेन ज्ञानं प्रति तादात्म्यादिना शरीरादेः कारणत्वाद् मुक्त्यवस्थायां शरीरादिनिमित्तकारणविरहे ज्ञानस्य सम्भव एव नास्तीति तश्चित्सन्ततेः सम्भवः ? इति चेत् मैवम् , यतो न ज्ञानं प्रति नैयायिकादिवत् शरीरादीनां कारणत्वमभ्युपगम्यते, किन्तु पूर्वपूर्वविज्ञानक्षणानामेवोत्तरोत्तरविज्ञानक्षणं प्रति कारणत्वम् । न च सुषुप्तौ ज्ञाना-ऽभावेन तदुत्तरं कारणविरहाद् ज्ञानसन्ततिर्व्यवच्छिद्यतेति वाच्यम् , तत्रापि ज्ञानस्य सत्वात् । न च सुषुप्तावस्थायां ज्ञानसद्भावे जाग्रदवस्थातो विशेषो न स्यात् , उभयत्राऽपि स्वसंवेद्यज्ञानस्य सद्भावा-ऽविशेषादिति वाच्यम् ,यतः सुषुप्तौ 'मिद्धेना-ऽभिभूतत्वं ज्ञानस्या-ऽस्ति, अतो विशेषोऽस्त्युभयोरवस्थयोः। न च तथा-ऽप्यभिभूतज्ञानक्षणतो रागद्वेषकलुषितज्ञानक्षणतश्च क्रमेण कथमनभिभूतज्ञानक्षणस्य रागद्वेषविनिमुक्तज्ञानक्षणस्य चोत्पत्तिः स्याद् ? इति वाच्यम् , पूर्वपूर्वज्ञानक्षणानां तत्तदतिशयवत्वेना
(१) अतिजाड्येनातिनिद्रया वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org