________________
५३८ ]
खवगसेढी
[ गाथा-२६७ भवति-अविद्या किं सद्रपा स्वीक्रियते ? उता-ऽसद्रूपा ? न तावत् प्रथमपक्षः, ब्रह्मण इव तस्या अपि निवृत्तेरसम्भवात् ,तन्निवृत्यभ्युपगमे चा-ऽविशेषेण ब्रह्मणोऽपि निवृत्तिप्रसङ्गात् । यदि चाऽसत्त्वरूपा, तदा सा नित्यनिवृत्ता, न तन्निवृत्तिः कृतिसाध्या । नन्वविद्या न सद्रूपा, नाऽसद्र पा, किन्त्वनिर्वचनीयेति चेत् , मैवम् , यया-ऽनिर्वचनीयतया-ऽविद्या तत्कार्याणि चा-ऽनिर्वचनीयानि भण्यन्ते, सा निर्वचनीया न वा ? प्रथमपक्षे सत्त्वेन निर्वचनीया चेत् , तीद्वैतभङ्गः, ब्रह्मभिन्नायास्तस्या अपि सच्चोपगमात् । असत्वेन चेत् , तर्हि कथं तया खरविषाणकल्पया-ऽविद्यया उपरञ्जनम् ?
अथाऽनिर्वचनीयता-ऽप्यनिर्वचनीयेति द्वितीयपक्षः समाश्रियते, तदाऽनिर्वचनीयताया निर्वक्तुमशक्यत्वेन स्वरूपतो-ऽपहारः।
(इति वेदान्तिस्वीकृतमोक्षस्वरूपस्य प्रतिविधानम् ।) त्रिदण्डिनस्त्वाहुः-आनन्दमयपरमात्मनि जीवात्मलयो मोक्ष इति । तत्र यदि परमात्मनि जीवात्मलयो नाम घ्राण-रसन-चक्षुः-श्रोत्र-स्पर्शाख्य-पञ्चज्ञानेन्द्रिय-वाक्पाणि-पाद-पायूपस्थलक्षणपञ्चकर्मेन्द्रिय-मन:-शब्द-स्पर्श-रूप-रस-गन्धतन्मात्रावस्थित--पृथिव्यप-तेजो--वाय्वाकाशरूपपञ्चभूतात्मकलिङ्गशरीरा-ऽपगमेन जीवात्मनः परमात्मत्वावाप्तिः, तर्हि सिद्धान्त एव, नामकर्मक्षयेण स्याद्वादिभिरपि तत्स्वीकारात् । अथ यदि लयो नामोपाधिशरीरनाश औपाधिकजीवस्य नाश इति चेत् , न, जीवनाशस्थ सर्वैः प्रेक्षावद्भिरकाम्यत्वेन तादृशमोक्षस्य पुरुषार्थत्वं न स्यात् । केपाश्चिद् दुःखजरितानां जीवनाशः काम्यत्वेन दृश्यत इति तु प्रेक्षावतां पर्षदि वक्त न युज्यते, अविवेकिनां तथाप्रवृत्तः ।
किश्च परमात्मनि परमब्रह्मस्फुल्लिङ्गकल्पजीवात्मलयो मोक्ष इत्यभ्युपगमे परमात्मन उपचयप्रसङ्गः स्यात् , घृतादौ घृतान्तरप्रवेशवत् , अपि चोपचये सैव ब्रह्मसत्तंति वक्तुं न शक्यते, सत्तान्तरस्वीकारे च भवत्सिद्धान्तपरित्यागापत्तेः।
(इति त्रिदण्डिमतानुयायिमोक्षस्वरूपखण्डनम् ।) सौगतास्तु प्राहुः- निरुपप्लवा चित्सन्ततिर्मोक्ष इति । उक्तश्च
चित्तमेव संसारो रागादिक्लेशवासितम् ।।
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥१॥” इति । अयं भावः-ज्ञानक्षणप्रवाहव्यतिरिक्तस्या-ऽऽत्मनोऽसम्भवात् कस्या-ऽनन्तज्ञानसुखादिस्वभावत्वं संभवति ? मुक्तिस्वात्मदर्शिनो न भवत्येव, यतो य आत्मानं स्थिरत्वादिस्वरूपं पश्यति, तस्यात्मनि स्थिरत्वादिगुणदर्शनेन स्नेहो भवति, स्नेहाच्च सुखादिषु तृष्णाशीलः सन् सुखादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org