________________
वेदान्तिनामभिप्रायेण मोक्षनिरूपणम् ] मोक्षस्वरूपविचारः
[ ५३० ___ 'यदभिहितम्-"मुमुक्षुप्रवृत्तिरिष्टार्थप्राप्त्यर्था, प्रेक्षापूर्वकारिप्रवृत्तित्वात्" इत्यादि, तदप्यपेशलम् , प्रवृत्त्युपदेशयोरन्यथासिद्धत्वात् । भवेत् साध्यसिद्धिः,यदि प्रेक्षावतां प्रवन्युपदेशयोरिष्टार्थप्राप्त्यर्थत्वं भवेत् , तयोस्त्वन्यथाऽपि दर्शनाद् न प्रकृतसाध्यसाधकत्वम् । तथाहिन हि प्रेक्षावतां केवलं प्रवृत्युपदेशयोरिष्टप्राप्त्यर्थत्वम् , अपि त्वातुराणां चिकित्साशास्त्रार्था-ऽनुष्ठायिनामनिष्टप्रतिषेधाया-ऽपि प्रवृत्युपदेशौ दृश्येते, अतः कथमिष्टप्राप्त्यर्थता प्रवृत्युपदेशलक्षणहेतुद्वयेन सिद्धयति ?
किश्चा-ऽब्रेष्टशब्देन किमभिप्रेतप्रयोजनमभिधीयते ? उत सुखम् ? यदि प्रथमपक्षः, तर्हि कथमात्मनः सुखस्वभावत्वं सिध्येत ? साङ्खयादिमान्या-ऽपवर्गसिद्धिप्रसङ्गश्च, अन्यमताऽनुयायिनां साङ्ख यादीनामपि मुमुक्षूणां प्रवृत्युपदेशयोस्तदिष्टाऽपवर्गलक्षणप्रयोजनसाधकत्वात् । न च प्रवृत्तेः प्रेक्षावचविशेषणोपादानाद् न साङ्खयादिमान्या-ऽपवर्गसिद्धिप्रसङ्ग इति वाच्यम् , प्रेक्षावदप्रेक्षावतोविवेकस्याऽशक्यत्वात् । तद्यथा-न हि भवन्मतानुयायिनः प्रेक्षावन्तो न सांख्यमतानुसारिण इति विवेकः कर्तुं शक्यः,प्रमाणबाधितैकान्तनित्यत्वादिस्वभावाङ्गीकारेण सर्वेषामप्यप्रेक्षावत्वसिद्धेः ।
अथेष्टशब्देन सुखमभिधीयते, तर्हि साध्यविकलं दृष्टान्तम् , न हि कृषीवलादीनां कृष्यादिप्रवृत्तिः सुखार्था भवति, धान्यादिफलनिष्पत्त्यर्थत्वात्तस्याः ।
___ यच्च "सुखतारतम्यं कचिद्विश्रान्तम् , तारतम्यशब्दवाच्यत्वा"दित्युक्तम् , तदप्युक्तिमात्रम् , परत्वादिना व्यभिचारात् , परापरादिबुद्धिप्रकर्षसमधिगतो हि परत्वादिप्रकर्षस्तारतम्यवाच्यो न कचिद् विश्राम्यति ।
किश्च दुःखेऽप्येवं परमप्रकर्षः प्रसज्यते । तथाहि-दुःखतारतम्यं क्वचिद् विश्रान्तम् , तारतम्यशब्दवाच्यत्वात् , परिमाणतारतम्यवत् । न च दुःखपरमप्रकर्षो भवद्भिरपीष्ट इति दुःखपरमप्रकर्षेणापि व्यभिचारः।
साध्यतां वोक्तानुमानैर्मोक्षावस्थायां सुखम् , तत्र नित्यानित्यसुखस्य सत्त्वात् । न त्वेकान्तनित्यसुखम् , तस्य प्रमाणबाधितत्वात् ।।
(इति तौतातिताभिमतमोक्षस्वरूपस्य प्रतिविधानम् ।) ये पुनर्वेदान्तिन आहुः-अविद्यायां निवृत्तायां विज्ञानसुखात्मकः केवल आत्मा मोक्ष इति,ते-ऽपि निरस्ताः,ज्ञानसुखात्मकब्रह्मणो नित्यत्वे मुक्तसंसारिणोरविशेषापातात् ,तादृशा-ऽऽत्मनश्च कृतिसाध्यत्वविरहात् । न च ज्ञानसुखात्मकब्रह्मणो नित्यत्वेन साध्यत्वविरहे-ऽप्यविद्यानिवृत्तिः कृतिसाध्येति वाच्यम् , अविद्याया असत्वेन नित्यनिवृत्तत्वात् , अनिर्वचनीयतायाश्चा-ऽनिर्वचनीयत्वात् । एतदुक्तं
(१) पृ० ५२७ पं० ८। (२) पृ० ५२७ पं० १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org