________________
५३६] खबगसेढी
[गाथा-२६७ नस्वभावश्च पूर्वसुखज्ञानादिक्षणः । अत एव कथञ्चिदनित्यत्वपक्षे न कश्चिद् दोषः । न च संसारावस्थायां चरमज्ञानादिक्षणस्योत्तरसुखज्ञानाद्युत्पादनस्वभावता-ऽसिद्धति वाच्यम् , यतोऽजनकत्वेन तस्याऽर्थक्रियाकारित्वविरहादवस्तुत्वापत्तेस्तजनकस्य द्विचरमसुखज्ञानादिक्षणस्या-ऽवस्तुत्वम् , ततश्च तजनकस्य त्रिचरमसुखज्ञानादिक्षणस्येत्येवं निखिलसन्तानस्या-ऽवस्तुत्वप्रसङ्गः । "कृतश्चायं विवेको मुक्तिद्वात्रिंशिकायामपि
ऋजुसूत्रादिभिर्ज्ञानसुखादिकपरम्परा ।
व्यङ्ग चमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् ॥ १॥” इति। व्यवहारनयानुसारेण तु प्रयत्नसाध्यः कर्मक्षयो मोक्षः। कर्मक्षयश्चाऽस्मिन् ग्रन्थे विस्तरेण दर्शित एव ।
___ यच्चा-ऽनन्यत्वेन श्रुतौ श्रवणम् "विज्ञानमानन्दं ब्रह्म” इति । तदपि नास्मदभ्युपगमवाधकम् , समस्तज्ञेयव्यापिनो ज्ञानस्या-ज्वैषयिकस्य चा-ऽऽनन्दस्य स्वसंवेदितस्य मोक्षावस्थायां सकलकर्मरहितात्मस्वरूपब्रह्मा-ऽभेदेन कथञ्चिदभीष्टत्वात् ।।
__ यच्चोकम् “मुमुक्षुप्रयत्नेन तु यदाऽनाद्यविद्या विनिवर्तते,तदा-ऽऽनन्दस्वरूपप्रतिपत्तिर्भवति,सैव मोक्षः" इत्यभिहितम् ,तत्तु युक्तमेव,अष्टविधपारमार्थिककर्मप्रवाहरूपाऽनाद्यविद्याविलयेना-ऽनन्तसुखज्ञानादिस्वरूपप्रतिपत्तिलक्षणमोक्षप्राप्तेरिष्टत्वात् । नवरं कर्मप्रवाहरूपा-ऽनाद्यविद्या परिणामिनी पौद्गलिकी आत्मतो व्यतिरिक्ता वस्तुस्वरूपा प्रतिपत्तव्या, न तु तुच्छरूपा । या च"आनन्दं ब्रह्मणो रूपंतच्च मोक्षेऽभिव्यज्यते ।" इति श्रतिदर्शिता ,साऽपि नाऽस्मत्पक्षबाधिका, अभिव्यक्तेः स्वसंविदिता-ऽऽनन्दस्वरूपतया तदवस्थायामात्मन उत्पत्तेरभ्युपगमात् ।
ये पुनरेकान्तनित्यसुखसिद्धयर्थमनुमानप्रयोगाः प्रदर्शिताः, ते तु न युक्ताः, तोरनैकान्तिकत्वादिदोषा-ऽऽक्रान्तत्वात् । तथाहि-आत्मा सुखस्वभावः,अन्यन्तप्रियबुद्धिविषयत्वात् ,अनन्यपरतयोपादीयमानत्वाच्चेत्यत्र अत्यन्तप्रियबुद्धिविषयत्वमनन्यपरतयोपादीयमानत्वञ्च यत्साधनमुप. न्यस्तम् , तदनैकान्तिकम् , दुःखाभावेऽपि तस्य सद्भावात् ।
अत्यन्तप्रियबुद्धिविषयत्वञ्चा-ऽसिद्धम् , दुःखितायामप्रियबुद्धपि मद्भावात् । अनन्यपरतयोपादीयमानत्वमप्यसिद्धम् , सुखाद्यर्थमुपादानात् ।
एतेन यदपि "आत्मा सुखस्वभावः, वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वाद् निरुपचरितप्रेयोबुद्धिविषयत्वादा" इत्युक्तम् , तदपि प्रत्युक्तम् , प्रागुक्ताशेषदोषानुषङ्गात् । मुख्यप्रेयोबुद्धिविषयत्वं निरुपचरितप्रेयः शब्दवाच्यत्वञ्चाऽसिद्धम् , दुःखितायां तदभावात् ।।
विरुद्धश्च हेतुद्वयम् , सुखस्वभावत्वविपरीताया दुःखाभावस्वभावताया एवा-ऽस्मात् सिद्धः, तथाहि--अयमात्मा दुःखाभावस्वभावः, वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वाद् निरुपचरितप्रेयःशब्दवाच्यत्वाद्वा रागिणां वैषयिकदुःखाभाववदिति ।
(१) पृ० ५२६ पं०७ (२) पृ० ५२६ पं० ८ । (३) पृ० ५२६-५२७ (४, पृ० ५२६ पं० १८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org