________________
संग्रहनयेन ऋजुसूत्रादिनयेन च मोक्षविचारः
मोक्षस्वरूप विचारः
[ ५३५
3
असदेतत् सर्वम्, अस्मदभिप्राया-परिज्ञानेन प्रलपितत्वात् न हि स्याद्वादिभिरेकान्तेन नित्यं सुखसंवेदनं स्वीक्रियते, नाऽप्येकान्ततोऽनित्यम्, किन्तु सुखवद् नित्यानित्यमभ्युपगम्यते, अतो न कश्चन दोषः ।
द्रव्यतो नित्यं पर्यायतश्चाऽनित्यं सुखज्ञानादिकमात्मनि स्वीकुर्वतां स्याद्रादिनामयं विवेकः – सङ्ग्रहनयानुसारेण आत्मनः सुखज्ञानादिस्वभावः सेन्द्रियशरीराद्यपेक्षाकारणरूपावरणेन प्रच्छाद्यते गृहा-ऽवस्थितप्रकाश्यपदार्थ प्रकाशकत्वस्वभावः प्रदीप इव तदावारकशरावादिना, सेन्द्रियशरीराद्यपेक्षाकारणरूपाऽऽवरणापगमे तु जीवस्य विशिष्ट प्रकाश्यपदार्थप्रकाशकत्वस्वभावो ऽयत्नसिद्ध:, शरावाद्यपगमे प्रदीपस्येवेति । अत एव कथञ्चिद् नित्यत्वपक्षे न दोषः ।
यत
न च शरीराद्यपेक्षाकारणविरहाद् मुक्तौ सुखज्ञानादिकं न सम्भवतीति वाच्यम्, आवृतसुखज्ञानादिकं प्रत्येव शरीरादीनां कारणता, न त्वनावृतसुखज्ञानादिकं प्रति । ततश्च मुक्तौ न सुखज्ञानादिकं विरुध्यते । यदि सेन्द्रियशरीरादिरूपाणामावारकाणामभावात् सुखज्ञानादीनामभावः प्रेर्यते, तर्हि तुल्ययुक्त्या प्रदीपावारकाणां शरावादीनामभावे प्रदीपोच्छेदप्रसङ्गः । ननु शरावादीनां प्रदीपं प्रति न जनकत्वमिति न शरावाद्यभावे प्रदीपस्याऽभावः, सुखज्ञानादिकं प्रति तु शरीरादीनां जनकत्वमिति स्यादेव शरीराद्यभावे सुखज्ञानाद्यभाव इति चेत्, उच्यते -पद्यपि शरावादीनां प्रदीपं प्रति न जनकता, तथाप्यावृतप्रदीपपरिणतिं प्रति न केनचित् निवारयितुं शक्या, यदि चाऽऽवृतप्रदीपपरिणतिं प्रति शरावादीनां जनकत्वं न स्यात्, तदा शरावादीनामावारकत्वमपि न भवेत् । तस्मात् प्रदीपं प्रति शरावादीनां जनकत्वविर हेऽप्यावृतप्रदीपपरिणतिं प्रति जनकताऽस्ति, एवं प्रकृतेऽध्यावृतसुखज्ञानादिकं प्रति शरीरादीनां कारणत्वमस्त्येव, न त्वनावृत सुखज्ञानादिकं प्रति । ततश्चन काचिदनुपपत्तिरिति । अपि चोपलभ्यते संसारावस्थायामपि वासीचन्दनकल्पानां समवृत्तीनां तस्यैव भावनाविशिष्टध्याना-ऽवस्थितानां सेन्द्रियशरीरादिव्यापाराऽजन्यः परमाह्लादरूपोऽनुभवः, वशादुत्तरोत्तरावस्थामासादयतः परमकाष्टागतिः संभाव्यत एव ।
ऋजुसूत्रादिनयानुसारेण त्वात्मनः स्वरूपभूतानन्दज्ञानादिस्वरूपता मोक्षावस्थायामुत्पद्यत एव, शुद्धनयैरुत्तरोत्तर विशुद्धपर्याय मात्राभ्युपगमाद्, सुखज्ञानादीनां क्षणस्वरूपतायाः क्षणसत्तयाऽपि सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् । यद्येकान्तनित्यस्या ऽप्रच्युतानुत्पन्नस्थिरैकस्वभावता आत्मनोऽभ्युपगम्यते, तर्हि तस्य वैषयिकसुखदुःखोपभोगोऽपि नोपपद्यते, आत्मनि तादृशोपभोगस्वरूपस्य प्राक्तना भोगस्वरूपतो भिन्नत्वात् । स च स्वरूपभेदोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावात्मनि कथं सङ्गच्छेत १ एकस्वभावस्याऽन्यस्वभावस्वीकारेण स्वस्वभाव परित्यागप्रसक्तेः सुखज्ञानादिकं चोत्तरसुखज्ञानाद्युत्पादनस्वभावम् यच्च यदा यत्स्वभावम्
"
9
तत् तदा तदुत्पादने ना-ऽन्यापेक्षम्, यथाऽन्त्या बीजादिकारणसामग्रयङ्करोत्पादने । तदुपाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org