________________
५३४] खवगसेढी
[गाथा-२६७ भावो योगपचं गृह्यत, न सुखाभावो ना-ऽनभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् ।” इति।
अथ वदेत संसारावस्थायां नित्यसुखसंवेदनस्य प्रतिबद्धत्वाद् न मुक्तसंसारिणोरविशेषप्रसङ्गः, नवा सुखद्वयोपलम्भः, नाऽपि सुखदुःखयोयुगपद्ग्रहणमिति चेत् , न, नित्यसुखनित्यसंवेदनं केन प्रतिबध्यते ? (१)किं शरीरादिना १(२) अथवा वैषयिकसुखानुभवेन ?(३) उताऽविद्यया ? उतस्विद् बाह्यव्यासङ्गेन ?
(१) न तावत् प्रथमविकल्पः, शरीरादे गार्थत्वाद् भोगस्य च सुखदुःखसंवेदनादिरूपत्वाद् न तेन प्रतिबध्यते, न हि यद् यदर्थम् , तत् तस्यैव प्रतिबन्धकः । यदाहुायवात्स्यायनभाष्यकाराः "शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत् , न,शरीरादीनामुपभोगार्थत्वात् विपर्ययस्य चाऽननुमानात् । स्यान्मतम् , संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति, एतच्चाऽयुक्तम् , शरीरादय उपभोगार्थाः, ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नम् ।" इति । शरीरादेः सुखप्रतिबन्धकत्वाभ्युपगमे तु शरीरादिघातकस्य हिंसाफलं न स्यात् , लोके प्रतिबन्धकविघातकस्योपकारित्वेन प्रसिद्धः।।
- (२) अथ वैषयिकसुखा-ऽनुभवेनेत्यपि न युक्तम् , यतः सुखसंवेदनस्याऽनुत्पत्तिलक्षणो विनाशलक्षणो वा प्रतिबन्धो भवितुमर्हति, किन्तु न प्रकृतेऽन्यतरलक्षणः प्रतिबन्धः संभवति, सुख-तत्संवेदनयोरुभयोरपि नित्यत्वस्वीकारात् ।। (३) ना-ऽपि तृतीयविकल्पः,अविद्यायास्तुच्छत्वेन सुखज्ञानप्रतिवन्धलक्षणार्थक्रियाकारित्वविरहात् । (४) नाऽपि तुर्यो विकल्पः, यतो व्यासङ्गो नाम आत्मनो रूपादिविषयज्ञानोत्पत्तौ विषयान्तरे ज्ञाना-ऽनुत्पत्तिः, अथवेन्द्रियस्यैकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाऽजनकत्वम् । न चा-ऽनयोरन्यतरो व्यासङ्गोयुज्यते, सुखस्य तत्संवेदनस्य चोभयोर्नित्यत्वाऽभ्युपगमात् ।
तदेवं नित्यसुखसंवेदनस्य नित्यत्वे दुष्परिहार्या दोषाः ।
अथाऽस्तु नित्यसुखसंवेदनमनित्यमिति चेत् , तर्हि मोक्षावस्थायां तदुत्पत्तिकारणं वक्तव्यम् , अनित्यस्याऽनुत्पत्तिधर्मकत्वाऽनुपपत्तेः। न च योगजधर्मापेक्ष आत्ममनःसंयोगोऽसमवायिकारणमिति वाच्यम् , मुक्तौ योगजधर्मस्या-ऽसम्भवात् ।
अथाचं संवेदनं योगजधर्मादुत्पद्यते, तत उत्तरोत्तरं विज्ञानं पूर्वपूर्वत उत्पद्यत इत्यप्यसारम् , प्रमाणा-ऽभावात् । तथाहि-न हि शरीरसम्बन्धानपेक्षं किञ्चिदपि विज्ञानं ज्ञानोत्पत्ती सहकारिकारणम् , शरीरसम्बन्धाऽपेक्षस्यैव ज्ञानस्य ज्ञानान्तरोत्पत्तिं प्रति सहकारित्वदर्शनात् ।
न च मुक्तौ नित्यशरीरादीनां कल्पनया-ऽनित्यसंवेदनोपपत्तिः स्यादिति वाच्यम् , यतः शरीरादीनां कार्यत्वेन न नित्यत्वम् , प्रमाणबाधितत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org