________________
[ ५३३
नित्यसुखस्य संवेदनस्य नित्यत्वेऽनित्यत्वे चापत्तिः ] मोक्षस्वरूपविचारः मुखिनः, यथाऽप्रार्थितप्राप्तेन । तन्न दुःखाभावमात्रं सुखं वक्तं युज्यते नाप्यभिलापनिवृत्तिमात्रम् , किन्तु तद्वयतिरेकेण स्वरूपतः सुखमस्तीति, तदेवं सिद्धो मोक्ष आनन्दस्वरूपः, तद्रागेण च तत्र प्रवृत्तिर्न बन्धाय कल्पते, वैषयिकसुखरागविरहात् ।
____ननु नैयायिकमते दुःखेन निर्विष्णस्य मुमुक्षोरिच्छाविच्छेदाद् वैराग्यमपि जायते, ततश्च मोक्षः । परमानन्दलिप्सूनां स्याद्वादिनां मतेन तु मुमुक्षोरिच्छावत्त्वाद् वैराग्यव्याहतिः स्यात् , ततः कुतस्तेषां मोक्षः ? इति चेत् ,न ,दुःखद्वेषे सति प्रशान्तत्वव्याघातप्रसङ्गेन मोक्षाभावप्रसक्तः। अयं भावः-न केवलं विरक्तानामेव मोक्षेऽधिकारः, किन्तु प्रशान्तानामपि । यथा सुखेच्छावच्चाद् मुमुक्षोवैराग्यव्याघातप्रसङ्ग उपपाद्यते, तथैव दुःखद्वेषमन्तरेण न मुमुक्षोदुःखनाशानुकूलः प्रयत्न इति द्वेषराहित्यलक्षणप्रशान्तत्वस्य व्याघातः प्रसज्यते । ततश्च प्रशान्तत्वव्याहत्या कुतो मोक्षः ? एतेन यत्तु योगर्डिसाध्यनिरतिशयानन्दमयीं जीवन्मुक्तिमुद्दिश्य प्रवृत्तः कारणवशात् परममुक्तिमासादयतीति न युक्तम् , विरक्तानां मोक्षेऽधिकारादिति तदपि निरस्तम् ।
किञ्च नेच्छाविच्छेदसामान्यं वैराग्यपदार्थः, येन निरतिशयानन्दलिप्सूनां वैराग्यहान्या मोक्षो न स्यात् , किन्तु वैषयिकसुखेच्छाविच्छेदस्य वैराग्यपदार्थत्वम् । यदि इच्छाविच्छेदसामान्यस्य वैराग्यपदार्थत्वम् , तदा नैयायिकानां मतेन चरमदुःखनसरूपमुक्त्यामिच्छया प्रवृनिन स्यात् । किन्तु दुःखद्वेषादेव दुःखधंसानु कू उप्रयत्नः स्यात् । न च दुःखद्वेषाद् दुःखनाशानुकूरप्रयत्नो भवत्येवेति वाच्यम् , मूर्छा-मरणादी प्रवृत्तिासङ्गात् । न च जायत एव बहुतरदुःखजर्जरकलेवराणां मरणादौ प्रवृत्तिरिति वाच्यम् , तस्या अविवेकप्रवृत्तित्वात् । ननु पुरुषार्थत्वे विवेकाऽनुपयोग इति चेत् , सत्यमेव, पशुकल्पानां जनानां न विवेकोपयोगः, न तु प्रेक्षावताम् , प्रेक्षावन्तो हि यथावत् प्रयोजनं प्रमायैव प्रवर्तन्ते । तदुक्तम्
___"दुःखाभावोऽपि ना-वेद्यः पुरुषार्थतयेष्यते ।
न हि मूर्खाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः ॥१॥” इति । अथ पुनर्नैयायिकादयः शङ्कन्ते-अस्तु कुतश्चिद् मोक्षे नित्यसुखम् तस्य संवेदनं किं नित्यमस्ति, ? उता-ऽनित्यम् ? नित्यमिति चेत् , मुक्त-संसारिणोरविशे प्रसङ्गः,सुख-तत्संवेदनयोरुभयोरपि नित्यत्वेन संसारावस्थापामपि तत्सवात् । अपि चेन्द्रियजन्यसुखेन नित्यसुखस्य साहचर्या-ऽनुभवप्रसङ्गाद् नित्या-ऽनित्यसुखद्वयोपलम्भः स्यात् ,इन्द्रियजन्यदुःखेन च साहचर्याऽनुभवप्रसङ्गाद् सुख-दुःखयोयुगपद् ग्रहणं स्यात् , नित्यसुखस्य सदैव सचात् । यदुक्तंन्यायवात्स्यायनभाष्ये-"सुखवन्नित्यमिति चेत्, संसारस्थस्य मुक्तेनाऽविशेषः, यथा मुक्तः सुखेन तत्संवेदनेन च सनित्येनोपपन्नस्तथासंसारस्थो-ऽपि प्रसज्यत इति, उभयस्य नित्यत्वात् । अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्य योगपद्यंग त। यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org