________________
५३२] खवगसेढी
[गाथा-२६७ तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
या महद्भिरपि क्षिप्तः पूरण रेव खन्यते ॥१॥ इति किश्चा-ऽभिलाषनिवृत्तिरन्यथाऽपि-विषयेषु दोषदर्शनादितोऽपि सम्भवति । विषयेषु दोषाश्चेत्थं द्रष्टव्याः
असौ तरलताराक्षी पीनोत्तुङ्गघनस्तनी। विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥१॥ विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जास्थिविणमूत्रमेदः कृमिकुलाकुलम् ॥२॥ अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम् । इति चर्मपिनई सत्कामिनीति विधीयते ॥३॥ मेदोग्रन्थो स्तनौ नाम तो स्वर्णकलशौ कथम् । विष्ठाहतो नितम्बे च कोऽयं हेमशिलाभ्रमः ॥४॥ मूत्रामृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहोः पुंसां विडम्बना ॥५॥ प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्क स्थनि तथा पुसः स्वधातुस्पन्दिनः स्त्रियाम् ॥६॥ व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुघुरा। कथमद्य न रागाय म्रियमाणा तपस्विनी ॥७॥ अहो व्रणे वराकोऽयमकाले तृषितः फणी । प्रसारितमुखोऽप्यास्ते शोणितं पातुमागतः ।।८।। किमनेनापराडं नः स्वभावो वस्तुनः स्वयम् । स्पश्यमानो दहत्यग्निरिति कोऽस्मै प्रकुप्यति ॥९॥ नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये ।
स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥१०॥” इति।
विषयदोपदर्शनप्रयुक्ताभिलाषनिवृत्तिसुखं तु विषयोपभोगाधीनाभिलापनिवृत्तिसुखापेक्षया-ऽतिविशिष्टतरम् । किन्तु भवन्मते तत्कथं संघटेत् ? यतो भवन्मतमनुसृत्य विषयेषु दोषदर्शनेन जायमानं सुखं विषयोपभोगोत्पन्नसुखेन तुल्यं स्यात् , सुखत्वेनभिमताभिलापनिवृत्तरभावरूपाया अविशेषात् । न चैकत्रा-ऽभिलाषातिरेकात् तन्निवृत्तौ सुखातिरेकाभिमानः, अन्यत्रा-ऽन्यथेति वाच्यम् , यतोऽभिलापातिरेकेण प्रयस्यन्तं प्राप्तोऽर्थो न तथा प्रीणयति, यथाऽप्रार्थितः प्रयासा- द्विनोपनतः । लोकव्यवहारोऽप्येवमेव, यत्नसहस्रण प्राप्तः क्लेशप्राप्तोऽयमिति, न तेन तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -