________________
अभिलाषनिबर्हणं सुखमिति मतं तल्खण्डनञ्च ] मोक्षस्वरूपविचारः
[५३१ वस्थायामपि दुःखनिवृत्तेरिष्टत्वे-ऽपि सुखनिवृत्तिरनिष्टा । ततो यदि त्वदभिमतो मोक्षः केवलदुःखाभावरूपः स्यात् , तदा न प्रेक्षावतामिह प्रवृत्तिः स्यात् , सुखहानेरनिष्टत्वादनिष्टे चा-ऽप्रवृत्तेः ।
न च यथा रागान्धतया पारदार्ये भाविनरकादिदुःखा-ऽनुवन्धित्वं न वेद्यते, तथा सुखहानेरनिष्टत्वं विरागिभिने वेद्यते, ततश्च प्रवृत्तेरव्याघात इति वाच्यम् ,वैषयिकसुखेऽनिष्टत्वप्रतिसन्धानेऽपि मुमुक्षूणां प्रशमप्रभवसुखेऽनिष्टत्वा-ऽप्रतिसन्धानात् । न च मोक्षावस्थायां दुःखाभाव एव परमसुखम् , न तद्वयतिरित्तम् , दुःखाभावेऽपि सुखशब्दप्रयोगादिति वाच्यम् , यतोऽदुःखितस्य भवदभिप्रायेण दुःखाभावात्मकसुखवतो-ऽपि जीवस्य विशिष्टमधुरशब्दादिविषयोपभोगेन सुखातिशयस्यानुभविकत्वेन दुःखाभावे सुखत्वापादनं नियुक्तिकम् । तथाहि-यत्राऽपि क्षुत्पिपासापीडितस्य जनस्या-ऽन्नपानादिप्राप्ती तृप्तौ सत्यां क्षुत्पिपातादिदुःखं निवर्तते, तत्रापि शकुल्याधनविशेषाऽऽम्लमधुरादिपानविशेषैः सुखविशेषो जायत एव, दृश्यते च लौकिकानां जनानां सुखार्थमन्नपानादिविशेषोपादानम् । न चोचिता दृष्टविपरीतकल्पना । तथा सुखस्य भावरूपत्वाद् युज्यते तत्राऽन्नपानादिविशेषसामग्रयाऽतिशया-ऽऽधानम् , दुःखाभावस्य तु तुच्छत्वेन न युज्यते तत्रा-ऽतिशयाधानम् ।
येऽपि प्राहुः-यदापि पूर्व दुःखं नास्ति, तदा-ऽप्यभिलाषस्य दुःखस्वभावत्वात् तन्निबहणस्वभावं सुखमिति, तेऽपि न सम्यक प्रतिपन्नाः । तथाहि-अभिलापाख्यदुःखनिवृत्तिरेव सुखमिति तेषां मतमेवंरूपम्-यस्यैव यत्रा-भिलाषः, स एव तद्विषयोपभागेन सुखी, नान्य इति विषया अभिलाषं निव] तमेव सुखयन्ति । अन्यथा यदेकस्य सुख साधनम् , तत् सर्वेषामप्यविशेषेण स्यात् । न च तथा भवति । यदुक्तम्
"एकस्य विषयो यः स्यात् स्वाभिप्रायेण पुष्टिकृत् ।
अन्यस्य द्वेष्यतामेति स एव मतिभेदतः ॥१॥" इति । एवमेकपुरुषे-ऽपि यदा कामनिवृत्त्या सुखित्वम् , तदापि यस्यैव विषयस्याभिलाषो निवृत्तः, स एव तस्य सुखसाधनम् , नान्यो विषयः । तस्मादभिलाषनिवृत्तिरेव सुखमिति । तदसङ्गतम् , निरभिलापस्यापि जनस्य विषयविशेपोपभोगे सति विशेषाह्लादोत्पत्तेर्दर्शनात् । न च तत्राऽकामस्या-ऽपि जीवस्य विशिष्टविषयसम्पर्केण कामा-अभिव्यक्तौ जातायां विषयोपभोगद्वारेण तनिवृत्तिरेव सुखमिति वाच्यम् , यतो नाऽवश्यं विषयोपभोगोऽभिलापनिबर्हणः । उक्तश्च महाभारते
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवत्मव भूय एवा-ऽभिवर्धते ॥ श्रीपतञ्जलिनाप्युक्तम्- “भोगाभ्यासमनुवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् ।" इति।
पाराशर्यो- प्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org