________________
५३० ]
खवगसेढी
[ गाथा - २६७
त्मकः, इन्द्रियविषयार्जनादिनिवृत्तिहेतुत्वात् । स्पृहामात्रोऽप्यसावसङ्गानुष्ठाने सति परां कोटिमारूढस्य निवर्तते, यदुक्तम् — “मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः ।” इति ।
अपि च न्यायमतेन दुःखनिवृच्यात्मकमोक्षे ऽङ्गीकृते ऽपि दुःखविषयकद्वेषेण मोक्षे प्रयतमानस्य मुमुक्षोर्मोक्षाभावः प्रसज्यते, रागवद् द्वेषस्यापि बन्धहेतुत्वात् ।
ननु रागद्वेषौ हि संसारकारणमित्यवबोधति मुमुक्षुः, ततश्च स कथं दुःखद्वेषं कुर्यात् ? द्वेषं विनैवतस्य मोक्षार्थप्रवृत्तिर्भवतीत्यर्थः । भवतु वा मोक्षस्य दुःखनिवृत्तिरूपत्वाद् दुःखनिवृत्तेश्व दुःखद्वेषमूलकत्वेन द्वेष आवश्यकः, तथापि न स बन्धहेतुः । द्वेषो हि स बन्धहेतुः, य उत्पन्नः सन् स्वविषये मनोवाक्कायैः शास्त्रविरुद्धां प्रवृत्तिं कारयति, शास्त्रविरुद्धार्थाचरणे चाऽधर्माद्युत्पत्तिद्वारेण शरीरादिग्रहणम्, तन्निबन्धनसुखदुःखे जायेते । अयं तु मुमुक्षोर्विषयेषु द्वेषः सकलप्रवृत्तिविरोधित्वाद् धर्माधर्मानुत्पत्तौ शरीराद्यभावप्रयोजकत्वाद् न केवलं बन्धनिरोधाय, किन्तु स्वात्मघाताय प्रवर्तत इति चेत्, न, यतो मोक्षसुखार्थकरागेऽपि समानमेव ।
'यच्चोक्तं "दुःखसंस्पर्शशून्यशाश्वतिक सुखसम्भोगाऽसम्भवादित्यत्र शावतिकं नाम किमनाद्यनिधनम् ? यद्वा ऽऽदिमदपि प्रध्वंसवदपर्यवसानं सुखं विवक्षितम् ? तत्र प्रथम विकल्पे तादृशसुखं तावत् प्रेक्षावतामुपादित्सागोचरो न भवति, नित्यसिद्धत्वेन विषयसिद्धस्तदिच्छाप्रतिबन्धकत्वात् । द्वितीयविकल्पे दुःखसंस्पर्शशून्यं तादृशं सुखं संभवत्येव, आत्मनो मूलभूतस्वाभाविक सुखाऽभावे संसारावस्थायां सुखाभासस्यानुपपत्तेः । अपर्यवसानं च तत् विनाशकारणाभावात् । तस्य विनाशकारणं हि वेदनीयादिकर्म, विनाशश्चात्र तिरोभावो बोध्यः, वेदनीयादिकर्म च समूलका कषितम्, मिथ्यात्वा ऽविरति कषाय-योगलक्षणानां च कर्मोत्पत्तिकारणानामभावाद् न पुनरपि कर्मनिर्मितिः। न च सादित्वाऽभ्युपगमे तदुत्पादककारणमावश्यकम्, इह तु कारणाभावः, तेन तादृशसुखोत्पत्तिरनुपपन्न ेति वाच्यम्, सादित्वस्यात्र/ विर्भावरूपत्वात्, स्वाभाविक सुखस्य च तस्य सकलकर्मोपरमप्रयोज्यत्वात् ।
यदपि "सुखदुःखयोश्चैक भाजनपतितविषमधुनोर्मधूत्पन्न सुखकणिकापेक्षविषप्रयोज्यतीव्रतर मरणादिदुः खजनकयोरिव विवेकहानस्य दुःशक्यत्वाद् उभेऽपि सुखदुःखे त्यज्येता" मित्युक्तम्, तदप्यसारम्, वैषयिकसुखस्य तादृशत्वात् । वैषयिकं सुखं हि मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपं भवति, अतो युक्ता मुमुक्षूणां तज्जिहासा, किन्तु सा - ssत्यन्तिक सुख लिप्सूनामेव मुमुक्षूणां सम्भवति, न तु दुःखाभावकाङ्क्षिणाम् । येऽपि विषमधुनी एकत्र पात्रे संपृक्ते परित्यज्येते, तेऽपि जीवनादिसुखलिप्सयैव ।
I
किञ्च प्राणिनां संसारावस्थायां दु:खनिवृत्तेरिष्टत्वे ऽपि सुखनिवृत्तिरनिष्टा, तथैव मोक्षा
(१) पृ० ५२९ पं० २१ । (२) प्र० ५२९ पं० २२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org