________________
स्याद्वादमतेन नित्यानित्यसुखम ]
मोक्षस्वरूपविचारः
[५२९
नित्यं पर्यायतश्चाऽनित्यं सुखमात्मनि स्वीक्रियते स्याद्वादिभिः । ननु सुखस्य नित्यानित्यत्वे आत्मनस्तत्स्वभावत्वेन तस्याऽपि तथात्वप्रसङ्ग इति चेत्, सत्यमेतत्, किन्त्विष्टापत्तिरेषा, आत्मनस्तथात्वात् । आत्मन एकान्तनित्यत्वाभ्युपगमे तु वैषयिकभोगादेरप्यनुपपत्ति दर्शयिष्यते ।
न च द्रव्यतः सुखस्य नित्यत्वे कथितयोर्द्वयोर्नित्यत्वपक्ष संभविनो विकल्पयोरन्यतरस्याभ्युपगमे कथं न दोषप्रसक्तिः ? इति वाच्यम्, यतः प्रथम विकल्पस्याऽभ्युपगमे कर्मणामावारकन्वेनाऽभिमतत्वाद् दोषाभावः । द्वितीय विकल्पस्त्वनभ्युपगममात्रादेव निरस्तः । अयम्भाव:प्रथमविकल्पे नैयायिकादिभिर्भहसर्वज्ञादीन् प्रत्येवा-ऽऽवारका-ऽविद्यायास्तुच्छत्वं वक्तुं शक्यते, स्याद्वादिभिस्तु ज्ञानावरणादिकर्मणामावारकत्वेनाऽभ्युपगमः, तानि च कर्माणि सुखत आत्मतश्चाऽर्थान्तराणि, ततश्च युज्यते तेषामावारकत्वं मेघादिवत् । द्वितीय विकल्पस्त्वनभ्युपगममात्रादेव निरस्तः ।
अथ नैयायिकादयः शङ्कन्ते - ननु मोक्षावस्थायां नित्यानित्यसुखाभ्युपगमे तद्रागेण प्रवृत्तौ मोक्षाभावः प्रसज्यते, रागस्य बन्धहेतुत्वाद् । निरानन्ददुःख निवृत्तेरभ्युपगमे तु रागाभावात् स्यादेव मोक्षः । न च निरानन्दनिर्विज्ञान मोक्षाऽभ्युपगमे प्रेक्षात्रतां तत्र प्रवृत्तिर्न स्यात्, तथाहिते सोपाधिक-सावधिक परिमिता -ऽऽनन्दनिष्यन्दात् निर्विण्णाः स्वर्गादप्यधिकमनवधिक निरतिशयनैसर्गिकानन्दतज्ज्ञानरूपप्रधानप्रयोजनपूर्त्यर्थमेव प्रवर्तन्ते । यदि च मोक्षावस्थायां न सुखं न च ज्ञानम्, तदाऽऽत्मा जड: पाषाणनिर्विशेष एव भवेत् एवञ्च ते निर्णयेयुः -- कृतमपवर्गेण, संसार एव वरमस्तु । यत्र तावदन्तराऽन्तरा दुःखकलुषितमपि कियदपि सुखमनुभुज्यते । चिन्तनीयं तावदिदम् - किमल्पसुखानुभवो भव्यः ? उत सर्वसुखोच्छेदः ? इति सुखरूपप्रयोजनविरहात् प्रेक्षावतां मोक्षे प्रवृत्तिरनुपपन्नेति वाच्यम् - यतो न प्रयोजनानुवर्ति प्रमाणं भवितुमर्हति यदि केभ्यश्चिद् निरानन्दो मोक्षो न रोचते, कामं मा रोचताम्, न त्वप्रमाणक आनन्दस्तत्र कल्पयितु ं योग्यः । अपि च प्रेक्षावन्तो लाभातिरेककाङ्क्षिणः । ते खलु एवं विचारयन्ति-दुःखसंस्पर्शशून्यशाश्वतिक सुखसंभोगाऽसंभवाद् दुःखस्य चाऽवश्य हातव्यत्वादनयोः सुखदुःखयोरेकभाजनपतितविषमधुनोर्मधूत्पन्न सुखकणिकापेक्षविपप्रयोज्यतीव्रतर मरणादिदुःखजनकयोरिव विवेकहानस्य दःशक्यत्वाद् उभेऽपि सुखदुःखे त्यज्येतामिति संसाराद् मोक्षः श्रेयान् यतस्तत्र दुःखं सर्वथा न स्यात् । वरमियती कादाचित्की सुखकणिका परित्यक्ता, न तत्कृते दुःखभार इयान् व्यूढः । ततश्च स्थितमेतद्- निरानन्दमोक्षेऽपि न प्रेक्षावतां प्रवृत्तिर्विरुध्यत इति, सुखात्मकमोक्षाभ्युपगमे तु तद्रागेण तत्र प्रवृत्तौ कुतो मोक्ष : १ इति ।
अत्रोच्यते-यो हि सांसारिक सुखविषयरागः, स एव रागो बन्धनात्मकः, तस्य विषयाऽर्जनरक्षणादिप्रवृत्तिद्वारेण संसारहेतुत्वात् । अनन्ते च सुखे यद्यपि रागः, I तथापि नासौ बन्धना
(१) पृ० ५३५ पं० २७ (२) पृ० ५२७ पं० १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org