________________
५२८ ]
खत्रगढी
[ गाथा-२६७
रूपम्, न तद् अर्थक्रियाकारि, यथा मृगतृष्णिका जलम् तुच्छरूपा चा-विद्या भवद्भिरिष्टा । तस्माद् न तथाऽऽत्रियते सुखम् । उक्तञ्चा - ऽन्यत्रा - ऽपि -
"मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः ।
तत्त्वान्यत्वाद्यचिन्तया तु ना-ऽविद्याऽऽवरणक्षमा || १ ||" इति । नाऽपि द्वितीयविकल्पः, प्रत्यक्षादिप्रमाणवाधितत्वात् । तथाहि - न तावत् प्रत्यक्षप्रमाणेन मोक्षे नित्यसुखं व्यवस्थाप्यते, अस्मदादीन्द्रियजन्यप्रत्यक्षस्य तत्र व्यापाराभावात्, योगिप्रत्यक्षं त्वेवं प्रवर्तते, उता - ऽन्यथेत्यद्यापि विवादास्पदम् ।
"
नापि नित्यसुखं व्यवस्थापयितुमुपन्यस्तानुमानप्रमाणानि समर्थानि तेषां प्रतिविधास्यमानत्वात् । “विज्ञानमानन्दं ब्रह्म” इत्याद्यागमो ऽपि न नित्यसुखं सावयितुमलम्, तस्यैव प्रामाण्याऽसम्भवात् । गुणवद्भवतृणामेव वचनस्य हि प्रामाण्यम् भवता तु स्वागमोऽपौरुषेयोऽभ्युपगम्यते । न चा-ऽपौरुषेयत्वेनैव प्रामाण्यमिति वाच्यम्, अपौरुषेयत्वस्य नियुक्तिकत्वात् । तथाहिवचनं खलु वक्त्रोच्चार्यमाणमेव । अथ वचनञ्च, अवक्तृकं चेति माता मे वन्ध्येतिवत् कथं न व्याहतम् ? अस्तु वाऽऽगमस्य प्रामाण्यम्, किन्त्वसा आगमोऽन्यथाऽपि व्याख्यातुं शक्यते, अत्यन्तदुःखाभावे गौणार्थे सुखशब्दवृत्तित्वाऽभ्युपगमात् । तथाहि - लोके न केवलं मुख्य एव शब्दानां प्रयोगः, किन्तु गौsपि । यथा ज्वरभारादिसंतप्ता जना ज्वराद्यपगमे सुखिनो वयं जाताः, तथा काष्ठादिपरिहारे सुखिनो वयं सम्पन्नाः । अभिहितश्च न्यायवात्स्यायन भाष्ये ऽपि - "आत्यन्तिके च संसारदुःखाभावे सुखवचनाद् आगमेऽपि सत्यविरोधः । यद्यपि कश्चिदागमः स्याद् मुक्तस्यात्यन्तिकं सुखमिति । सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते । दृष्टो हि दुःखादेरभावे सुखशब्दप्रयोगो बहुलं लोके ।” इति । एवं श्रीव्योमाचार्यैरप्युक्तम्- - " मुख्ये हि बाघकोपपत्तेः गौण इति । तथाहि - दुःखाभावेऽयमानन्दशब्दः प्रयुक्तो दृष्टः, सुग्वशब्दो दुःखाभावे, यथा भाराक्रान्तस्य वाहिकस्य तदपाय इति ।"
एवमन्यत्रा - ऽप्युक्तम्
“चिरज्वर शिरोयदिव्याधिदुःखेन खेदिताः । सुखिनो वयमद्येति तदपाये प्रयुञ्जने ॥ १२ ॥” इति । " तृषाशुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि, क्षुधार्तः सन् शालीन कवलयति शाकादिवलितान् । प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधू, प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ॥ १ ॥” इति । तदेवं मुक्तात्मनि सुखं नैकान्तेनानित्यम्, नाप्येकान्तेन नित्यम्, किन्तु नित्यानित्यमेव । द्रव्यतो
तथैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org