________________
तोता तितानां मोक्षमतम्, तत्खण्डनं च ] मोक्षवरूप विचार:
अनन्यपरतयोपादीयमानत्वहेतुरपि नाऽसिद्धः, तथाहि - लोके स्त्रीपुत्रधनादिकमप्यात्मार्थमुपादीपते, आत्मा तु नान्यार्थमुपादीयते । उक्तं च सर्ववेदान्तसिद्धान्तसंग्रहेऽपि - " प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नाऽन्यार्थं नातः प्रियतमं (मः ) परः || १ ||" इति । तथाऽऽत्मा सुखस्त्रभात्रः, मुख्यप्रेयोबुद्धिविषयत्वाद् निरुपचरितप्रेयशब्दवाच्यत्वाद्वा, वैषयिकसुखवत् ।
रागिणां
|
तथा सुमुक्षुप्रवृत्तिरिष्टार्थप्राप्त्यर्था प्रेक्षापूर्व कारिप्रवृत्तित्वात् कृपीवलादिप्रेक्षापूर्व कारिप्रवृत्तिवत् । एवञ्च शास्त्रीय उपदेश इष्टार्थप्रात्यर्थः, उपदेशत्वात्, अन्योपदेशवत् । प्रतिपादितं चैतत् वात्स्यायन भाष्येऽपि " नोभयमनर्थकम् " । ( अ० १ ० १ सू० २२ ) इति मोक्षसुखाऽनभ्युपगमे तु तत्प्रवृच्युपदेशयोर्वैफल्यप्रसङ्गः ।
[ ५२७
,
निरतिशयत्वञ्च सुखस्यानुमानतोऽपि सिद्धम् । तद्यथा - सुखतारतम्यं क्वचिद्विश्रान्तम्, तारतम्यशब्दवाच्यत्वात् परिमाणतारतम्यवदिति । एवंविधैरनुमानैः सुखस्वभावताप्रतीतिः ।
अत्र प्रतिविधीयते यत् तावत् "विज्ञानमानन्दं ब्रह्मे" त्याद्यागमवचनेनोक्तानुमानैश्वात्मनः सुखस्वभावत्वं प्रतिपाद्यते, तत्सुखं किमनित्यं समस्ति ? उत नित्यम् ? न तावत् प्रथमपक्षः, आत्मनस्तत्स्वभावत्वेन तस्याऽप्यनित्यत्वप्रसङ्गात् ।
अथ नित्यमिति चेत्, तत्र विकल्पद्वयमवतरति---नित्यसुखमात्मस्वरूपं किं स्वप्रकाशकम् ? उत_ तद्भिन्नप्रमाणान्तरप्रमेयम् ? न तावत् प्रथमविकल्पः, आत्मस्वरूपवत् स्वप्रकाशसुखानुभवस्यैव सदैव सच्चेन मुक्तसंसारिणोरविशेषप्रसङ्गात् । न चाऽनाद्यविद्ययाऽऽच्छादितत्वात् स्वप्रकाशाऽऽनन्दसंवेदनं संसारिणां न भवति, योगाभ्यासेन त्वनाद्यविद्यानिवृत्ती आच्छादकाभावात् स्वप्रकाशा-ऽऽनन्दसंवित्तिर्जायत एव । उक्तं च- सिद्धान्तविन्दावपि - " यद्यपि संसारदशायामविद्यावृतस्वभावत्वादात्मा परमानन्दरूपतया न प्रथते (प्रकाशते), तथापि तत्त्वविद्ययाऽविद्यानिवृत्तौ स्वप्रकाशतया स्वयमेव परमानन्दस्वरूपतया प्रकाशते । "इति वाच्यम्, यत आच्छाद्यतेऽप्रकाशस्वभावं वस्तु, स्वप्रकाशं तु केनाच्छाद्यते । ननु सविता तत्प्रकाशश्च स्वप्रकाशः, आच्छाद्यते च मेघादिना, ततः कुत उच्यते - स्वप्रकाशं तु कैना -ऽऽच्छाद्यते ? इति चेत्, उच्यते न हि मेघादिना स्वप्रकाशः सविता तत्प्रकाशो वाऽऽत्रियते, आवृतत्वे हि दिवसरजन्योर - विशेषः स्यात्, दृश्यते च विशेषः, तस्माद् न स्वप्रकाशो केनाचिदात्रियते ।
Jain Education International
अस्तु वा मेघादिना स्वप्रकाशस्य सवितुस्तत्प्रकाशस्य चा-ऽऽवरणम्, तयोर्व्यतिरिक्तत्वाद् मेघादे:, अविद्यायास्तु तुच्छरूपत्वात् न तस्या आवृत्तिलक्षणाऽर्थक्रियाकारित्वम्, यत् तुच्छ
"
For Private & Personal Use Only
www.jainelibrary.org