________________
५२६ ]
खवगसेढी
[ गाथा-२६७ तौतातितास्त्वाहुः-नित्यनिरतिशयसुखाभिव्यक्तिर्पोक्ष इति । यदुक्तं विज्ञानमानन्दं ब्रह्मा" इति । अयम्भावः-संसारावस्थायामविद्यासंसर्गस्य प्रतिबन्धकत्वात् परमानन्दस्वभावतायाः प्रतिपत्तिर्न भवति । यदाऽविद्याया विनिवृत्तिः,तदा परमानन्दस्वभावतायाः स्वरूपेणाऽभिव्यक्तिर्भवति,यथा रज्ज्वादिद्रव्यस्याविद्यातस्तत्त्वाग्रहणा-ऽन्यथाग्रहणाभ्यां स्वरूपं न प्रकाशते, किन्तु सादिस्वरूपं प्रकाशते । अविद्याया निवृत्तौ तु तस्य स्वरूपं प्रकाशत एव । एवं ब्रह्मणोऽप्यनाद्यविद्यासंसर्गात् तत्त्वाग्रहणाऽन्यथाग्रहणाभ्याम् आनन्दस्वभावता न प्रकाशते, मुमुक्षुप्रयत्नेन तु यदाऽनाद्यविद्या विनिवर्तते, तदाऽऽनन्दस्वरूपप्रतिपत्तिर्भवति, सैव मोक्षः। दृश्यते च श्रतिः-'आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते।" इति। न चेह श्रुतौ 'ब्रह्मणः' इत्यस्य पष्ठयन्तत्वेन पष्टया ज्ञाप्यते ब्रह्मणा सह भेदः, न त्वभेद इति वाच्यम् , 'राहोः शिरः' इत्यादिवदभेदेऽपि पष्टीदर्शनात् ।
ननु नित्यसुखस्यात्माऽभिन्नत्वेनात्मनश्वाऽनुभूयमानत्वेन नित्यसुखस्य सदैवानुभवः प्रसज्येत, सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमादिति चेत् ,सत्यम् ,सुखमनुभूयत एव । न च तो हं जानामीत्यनुव्यवसायवद् अहं सुखमित्यपि प्रत्ययः कुतो न भवति ? इति वाव्यम् , यतोऽविद्यादोषात् भ्रमादेवा-ऽनुभूयमानस्याऽपि सुखस्य सुखत्वेना-ऽननुभवनात् सुखवत्वेन वा दुःखवत्वेन वा प्रतीतेः , यथा भ्रमदशायां विशेष्यत्वेनाऽनुभूयमानाया अपि रज्ज्या रज्जुत्वेनाऽननुभवनात् सपत्वेन प्रतीतेः, योगाभ्यासेनाऽविद्यानिवृत्तितो-ऽपगते भ्रमे स्वरूपलाभात् सुखत्वेनाऽनुभवो भवत्येव ।
प्रमाणश्चात्रा-ऽऽत्मा सुखस्वभावः, अत्यन्तप्रियबुद्धिविषयत्वात् , अनन्यपरतयोपादीयमानत्वाच्च, वैषयिकसुखवत् । यद् यद् एवंविधम् , तत् तत् सुखस्वभावम् , यथा वैषयिकं सुखम् , तथा चा-ऽऽत्मा, तस्मात सुखस्वभाव आत्मा। न चा-ऽत्यन्तप्रियबुद्धिविषयत्वमसिद्धम् , सर्वजनैः स्त्री-धन-पुत्रादिसर्वपदार्थत आत्मनोऽत्यन्तप्रियत्वस्या-ऽनुभवात् । उक्तञ्च "बहदारण्यके"तदेतत्प्रेयः पुत्रात्प्रेयः, अन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा आत्मानमेव प्रियमुपासीत ।” इति । एवं सर्ववेदान्तसिद्धान्तसंग्रहेऽप्युक्तम्
"आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥१॥ सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते । कदापि नाऽवधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥२॥ आत्मा-ऽतः परमप्रेमास्पदः सर्वशरीरिणाम् । यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ३ ॥ एष एव प्रियतमः पुत्रादपि धनादपि ।।
अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः॥ ४ ॥" इति (१) बृहदारण्यके ३-९-२८ । (२. १-४-८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org