________________
मोक्षे कानिचिद् मतानि तत्खण्डनानि च ]. मोक्षस्वरूपविचारः
[ ५२५ ननु यद्येवमात्यन्तिकदुःखप्रागभावो न कृतिसाध्यः, तर्हि दुःखानुत्पादमुद्दिश्य प्रायश्चित्तादौ कथं प्रवृत्तिः, दुःखानुत्पादस्य दुःखप्रागभावस्वरूपत्वात् तस्य चाऽसाध्यत्वात् ? इति चेत् , कामम् , प्रायश्चित्तेन पापध्वंसद्वारा कियन्तं कालं दुःखप्रागभावाऽनुपालनमस्त्येव, किन्तु नैतावता तस्यालीकप्रतियोगिकत्वम् , पापान्तरमासाद्य प्रागभावेन दुःखजननाद् । न हि भाविनि मरणे ज्ञातेऽपि प्रकृतरोगिने भेपजदानस्य वैफल्यम् । मोक्षे तु कदापि दुःखजननं न संभवति, ततश्चाऽत्यन्ताभावत्वव्यपदेशप्रसङ्गः । दुःखोत्पत्तिसम्भवे च पुनः संसारावाप्तिः ।।
केचित् तु नैयायिका आहुः-दुःखाऽत्यन्ताभावो मोक्ष इति । दुःखेनाऽत्यन्तं विमुक्तश्चरतीति श्रुतेः । तदप्यतिमन्दम् ,अत्यन्ताभावस्य नित्यत्वेन कृतिसाध्यत्वविरहात् । न चा-ऽत्यन्ताभावसम्बन्धः साध्यत इति वाच्यम् , उत्पत्तिमतो भावस्य नाशनियमेन तादृगुत्पत्तिमत्सम्बन्धनिवृत्तौ मुक्तानामपि संसारित्वप्रसङ्गात् । न च दुःखसाधनध्वंस एव स्ववृत्तिदुःखा-ऽत्यन्ताभावसम्बन्धः, तन्निवृत्तिश्च न भवति, ध्वंसस्या-ऽविनाशित्वात् , ततश्च न पुनः संसारित्वप्रसङ्ग इति वाच्यम् , दुःखसाधनध्वंसात्मकसम्बन्धसम्बद्धदुःखात्यन्ताभावस्य मोक्षत्वकल्पना-ऽपेक्षया लाघवाद् विशिष्टदुःखसाधनध्वंसस्यैव मोक्षत्वकल्पनाया न्याय्यत्वात् ।
___ अथास्तु विशिष्टदुःखसाधनध्वंसो मोक्ष इत्यपि न युक्तिसङ्गतम् , यतो दत्तफलानां दुःखसाधनानामदृष्टानां निवृत्तिरयत्नसिद्धा । अदत्तफलानां तु निवृत्तिरनागतदुःखा-ऽनुत्पत्तिमभिसन्धाय समीहिता , तेन दुःखानुत्पाद एव प्रयोजनम् , स च दुःखप्रागभावस्वरूपः, तस्य च मोक्षत्वानुपपत्तिः प्राग्दर्शितैव ।
अथ भवति दुःखध्वंसस्तोमो मोक्ष इत्याहुः केचित् । यत्किञ्चिदुःखध्वंसो-ऽस्मदादिसंसारिणामप्यस्ति, तेन कथितः स्तोम इति । तन्न, यतः स्तोमः कथमपि मोक्षोपायत्वेनाभिमततत्त्वज्ञानादिना न साध्यः, समग्रसंसारकाले भिन्नभिन्नकालोत्पन्नतत्तद्दुःखध्वंसानां स्तोमान्तर्गतत्वेन तत्तत्कालीनदुःखोपभोगादिभिरेव निष्पन्नत्वात् । तत्त्वज्ञानोत्तरमपि तस्य( तत्वज्ञानस्य)दुःखप्रयोजकदुरितविध्वंसकत्वेन दुःखानुत्पादसम्पादकत्वमेवेति कथं दुःखध्वंसस्तोमस्य साध्यत्वम् ? ____ अपि च ताकस्तोमस्य यावत्वसंख्यारूपत्वे तस्याऽपेक्षाबुद्धिजन्यत्वेन न मोक्षोपायत्वेनाभिमततत्वज्ञानादिसाध्यत्वम् । तत्तदुःखध्वंसस्वरूपत्वे तु दुःखस्य योग्यविभुविशेषगुणत्वेन तद्ध्वंसस्य स्वतस्तृतीयक्षणनिष्पन्नत्वाद् न मोक्षोपायभूततच्चज्ञानसाध्यतेति कथमपि न मोक्षो दुःखध्वंसस्तोमरूपो घटां प्राश्चति ।
(इति नैयायिकाद्यभिमतमोक्षस्वरूपप्रतिविधानम् ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org