________________
५२४ ]
गढी
[ गाथा - २६७
तद्यथा-व्यभिचारशङ्का पुनरित्थम्, अस्तु सत्कार्यमात्रवृत्तित्वम्, माऽस्तु दुःखप्रागभावाऽनधिकरणवृत्तिध्वंसप्रतियोगिवृत्तित्वमिति, तस्यामुपस्थितायां न तद्बाधकः कोऽपि कार्यकारणभावादिमूलकतर्कों लभ्यते, वह्निधूमादिवत् हेतुसाध्ययोः कार्यकारणभावादिविरहात् ।
(३) अप्रयोजकत्वेऽपि सत्साध्यसाधकभावा - ऽभ्युपगमे स्वनभिमतसिद्धिप्रसङ्गः । अनभिमतसाध्यं प्रत्यपि निरुक्तहेतोरविशेषात् । तद्यथा, - आत्मकाला -ऽन्यवृत्तिप्रागभावप्रतियोग्यवृत्तिदुःखत्वं दुःखध्वंसाऽनधिकरणवृत्तिप्रागभावप्रतियोगिवृत्ति, सत्कार्यमात्रवृत्तित्वात् प्रदीपत्ववदित्यनुमानेन यस्मात् पूर्वं न कस्यचिद् दुःखस्योत्पत्तिः, तादृशः कालः सिध्यति, एवं दुःखस्थाने सुखादिकं प्रक्षिप्याऽऽत्मकालान्यवृत्ति प्रागभावप्रतियोगिवृत्ति, सत्कार्यमात्रवृत्तित्वात्, प्रदीपत्ववदित्यनुमानेन यत्पूर्वं न कस्यचित् सुखादेरुत्पत्तिः तादृशकालः सिध्यति, ततश्च संसारस्य सादित्वं सिध्यति, तच्चाभिमतम् ।
प्राभाकरास्तु प्राहुः - आत्यन्तिकदुःखप्रागभावो मोक्ष इति । न च यद्यात्यन्तिकदुःखप्रागभावो मोक्ष इत्यभ्युपगम्यते, तर्हि दुःखप्रागभावस्यानादिकालतः प्रवृत्तत्वात् कृत्यसाध्यत्वे - नाsपुरुषार्थत्वं प्रसज्यत इति वाच्यम्, यतो दुःखप्रागभावस्या -ऽनादित्वेऽपि प्रतियोगिजनका -ऽधर्मविनाशद्वारा तत्संरक्षणीयत्वरूपं कृतिसाध्यत्वं समस्ति । तथाहि — कृत्यधीनतच्चज्ञानेनाऽधर्मनाशे सम्पन्ने तदुत्तरक्षणे दुःखसामग्रीविरहेण दुःखानुत्पत्त दुःखप्रागभावपरिपालनं संपद्यते । तदेवं क्षेमस्वरूपजन्यता प्रागभावेऽपि समस्ति, तेन समस्त्येव प्रागभावस्य कृतिसाध्यत्वम्, लोकेऽपि यथा सुर्वणप्राप्तौ कृतिर्दृश्यते, तथा सुवर्णादि संरक्षणेऽपि । ततश्च ना- पुरुषार्थत्वापत्तिः ।
एतत्सर्वमप्यसारम्, यतो ऽनादिः सान्तोऽभावः प्रागभावः, स च नियमेन स्वप्रतियोगिनमुत्पादयति, स्वप्रतियोग्युत्पादे च पुनः संसारित्वापत्तिः । न च सहकारिणो विरहेण प्रागभावेन स्वप्रतियोगिदुःखं नोत्पाद्यत इति वाच्यम्, तथासति तादृक्प्रागभावस्य भाविकालेऽप्यन्तविरहेण तस्याऽत्यन्ताभावत्वप्रसङ्गः । अत्यन्ताभावस्य च नित्यत्वेन कृतिसाध्यत्वविरहाद् न पुरुषार्थत्वम् ।
किञ्चा - ssत्यन्तिकदुःखप्रागभावो मोक्ष इति कथने कः प्रतियोगी ? न तावत् समानाधिकरणं भाविदुःखम्, मुक्तौ तस्याऽसच्चात् । भाविदुःखसद्भावे तु पुनरावृत्तिप्रसङ्गः । नाऽपि समाना - धिकरणमतीतं वर्तमानं वा दुःखं प्रतियोगितया वक्तुं शक्यते, तत्प्रतियोगिकप्रागभावस्य विनष्टत्वात् । नाऽपि व्यधिकरणं दुःखं प्रतियोगि, अन्यवृत्ति दुःखस्यान्यवृत्त्यत्यन्ताभावनिरूपितैव प्रतियोगिता, न त्वन्यवृत्ति प्रागभावनिरूपिता, प्रागभावस्य स्वप्रतियोगिसमवायिदेश एव वृत्तेरभ्युपगमात् । नाऽपि सामानाधिकरण्यवैयधिकरणविवक्षाशून्यं दुःखमात्रं प्रतियोगीति वक्तुं शक्यते, स्वपरावृत्ते दु:खस्याप्रामाणिकत्वात् ।
अपरच मोक्षस्य तादृशात्यन्तिकदुःखप्रागभावरूपत्वकल्पने कदाप्यजन्यस्य दुःखस्यासच्चेन तत्प्रागभावस्याप्यलीकप्रतियोगिकत्वादसत्रम्, तथा च तद्रूपमोक्षस्याप्यसच्चापत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org