________________
श्रीवर्धमानोपाध्यायमोक्षानुमानस्य प्रतिविधानम् ] मोक्षस्वरूपविचारः
__ [ ५२३ - अथ हेतोः पदकृत्यम्-वृत्तित्वेत्युक्ता आत्मत्वे व्यभिचारि,आत्मत्वस्याऽऽत्मनि वृत्तित्वात् । तद्यथा-हेतुः समस्त्यात्मत्वे,साध्यं तु नास्ति,आत्मत्वस्य तादृशध्वंसाप्रतियोगिवृत्तित्वात् । तेन कार्यपदोपादानम् । कार्यवृत्तित्वेत्यभिधाने-ऽनन्तत्वे व्यभिचारि, ध्वंसा-ऽप्रतियोगित्वरूपस्या-ऽनन्तत्वस्याऽकार्य आत्मादाविव कार्याध्वंसे-ऽपि सत्त्वात् । अयम्भावः-ध्वंसस्या-ऽविनाशशालित्वादनन्तत्वं कार्यभूतध्वंसे वर्तत एव । तेना-ऽनन्तत्वे कार्यावृत्तित्वं हेतुः समस्ति, साध्यं तु तादृशध्वंसप्रतियोगिवृत्तित्वं नास्ति, अनन्तत्वस्य तादृशध्वंसा-प्रतियोगिवृत्तित्वात् । मात्रपदोपादाने तु न व्यभिचारः । अनन्तत्वस्याऽऽत्मादौ नित्ये-ऽपि विद्यमानत्वेन कार्यामात्रवृत्तित्वविरहात् । न च दुःखत्वादीनां कालाख्यनित्यपदार्थवृत्तित्वात् कार्यमात्रवृत्तिताऽसिद्धति वाच्यम् , असाधारणवृत्तेविवक्षितत्वात् । न च सुखत्व-धर्मत्वाऽधर्मत्व-द्वेषत्वादिषु व्यभिचार इति वाच्यम् , पक्षसमत्वात् । कार्यमात्रवृत्तित्वेत्युक्तो ध्वंसत्वे व्यभिचारः, ध्वंसस्य कार्यत्वेन ध्वसत्वे कार्यमात्रवृत्तिताऽस्ति, किन्तु तत्र साध्यं नास्ति, ध्वस्तस्य ध्वंसाभावेन ध्वंसत्वस्य तादृशध्वंसाप्रतियोगिवृत्तित्वात् । तव्यभिचारवारणाय सदिति कार्यस्य विशेषणम् ।
___ तदेवं सर्वमुक्तिसिद्धौ चैत्रदःखत्वादिकं पक्षीकृत्य तत्तन्मुक्तिः साध्या, प्रयोगश्चेत्थम्चैत्रदुःखत्वं चैत्रदुःखप्रागभावानधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति, सत्कार्यमात्रवृत्तित्वात् ।
अथोक्तानुमानमित्थं प्रतिविधातव्यम्-निरुक्तानुमानमसत्-(१) बाधात् (२) अप्रयोजकत्वात् (३) अनभिमतसिद्धिप्रसङ्गाच । (१) तथाहि-दुःखप्रागभावा-ऽनधिकरणवत्तियों दुःखध्वंसः, तस्य दःखप्रागभावा-ऽनधिकरणे वृत्तिरभावीयविशेषणतासम्बन्धेनाऽभ्युपगम्यते यदि, तदा बाधः, दुःखध्वंसस्य तत्समवायिकारणे एव तेन सम्बन्धेन वृत्तेः, न तु महाप्रलययिति नैयायिकैरभ्युपगतत्वात् । यत्किञ्चित्सम्बन्धमात्रेण त्वभ्युपगमे तदभावववृत्तितादिरूपव्यभिचारितादिसम्बन्धेन दःखध्वंसस्या-ऽऽकाशादावपि वृत्तेन प्रकृतसिद्धिः। ____ कालिक-दैशिकविशेषणतान्यतरसम्बन्धेन वृत्तित्वोक्तावपि कालोपाधिजन्यपदार्थवृत्तित्वेन न प्रकृतसिद्धिः । तथाहि-यथा कालिकसम्बन्धेनाऽष्टद्रव्यातिरिक्तस्य कालस्या-ऽधिकरणत्वं भवति, तथैव कालिकसम्बन्धेन स्वसमानकालीनजन्यपदार्थमावस्याऽप्यधिकरणत्वं नैयायिकैः स्वीक्रियते, यत इदानीं तदानीमित्यादिप्रतीतिविषयता-ऽष्टद्रव्यातिरिक्तकालस्य न जन्यभाववैशिष्टयमन्तरेणेति जन्यभावः कालावच्छेदकः । ततश्च जन्यभावस्याऽपि कालत्वमिति कालकृतविशेषणात्मकेन कालिकसम्बन्धेन स्वकालीनजन्य पदार्थमावस्या-ऽधिकरणत्वम् । तेन प्रस्तुताऽनुमाने कालिकसम्बन्धेन दुःखध्वंसस्य दुःखप्रागभावा-ऽनधिकरणे जन्यपदार्थे वृत्तेर्न प्रकृतसिद्धिः, सृष्टावपि तत्सत्वात्।
(२) न केवलं हेतुसाध्ययोः सहचारभूयोदर्शनमेव साध्यसिद्धयर्थमुपयुज्यते, किन्तु व्यभिचारशङ्कायामुपस्थितायां सत्यां तन्निवर्तकतर्कोऽपि । स तु इह नास्ति, कार्यकारणादिभावविरहात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org