________________
५२२ ]
खबगसेढी
[गाथा-२६७ दुःखत्रागभावा-ऽनधिकरणत्वञ्चेह दुःखप्रागभावा-ऽधिकरणभिन्नत्वम् , तेनात्मा दुःखप्रागभावाऽनधिकरणं न भवत्येव, अन्यो-ऽन्याभाववृत्तेः सामयिश्या अनङ्गीकारेण दुःखप्रागभावा-ऽधिकरणस्याऽऽत्मनो दुःखप्रागभावा-ऽनधिकरणत्वा-ऽसम्भवात् । एवञ्चात्मनो दुःखप्रागभावा-ऽनधिकरणत्वविरहाद् न प्रत्येकमुक्त्या -ऽर्थान्तरम् ।
यद्यप्येवं व्याख्याते व्योमादिदःखप्रागभावानधिकरणं भवत्येव, तथा-ऽपि तद्वतिध्वंसप्रतियोगिवृत्तित्वं बाधितमेवेति पक्षधर्मतामाहात्म्येन कालविशेष एवं गृह्यते, न त्वाकाशादिः स एव च सर्वमुक्तिकालः, स एव च महाप्रलयकालः ।
ननु दिगेव तथा कुतो न भवति, कालवद् दिशो-ऽपि सर्वा-ऽऽधारत्वेन चरमदुःखध्वंसाऽऽधारत्वसम्भवात् ? इति चेत्, न, दिग्द्रव्यस्यैकत्वेन दुःखप्रागभावाधिकरणस्य तद्भिन्नत्वाऽसम्भवात्।
अथ दिगुपाधिः कोऽपि दुःखप्रागभावानधिकरण-दुःखध्वंसाधिकरणं भविष्यतीति चेत् , न, तादृशो दिगुपाधिः कोऽपि सृष्टिदशायां नास्ति । प्राध्यादय एव दिगुपाधयः, ते च दुःखप्रागभावा-ऽधिकरणमेव, महाप्रलयदशायां तु प्रमाणाभाव एव दिगुपाधौ, प्राच्यादिव्यवहाराभावात् । प्रस्तुतप्राच्यादेस्तत्राऽङ्गीकरणे-ऽपि तस्य दुःखप्रागभावा-ऽधिकरणत्वमेव । अन्यप्राच्यादेस्तद्विलक्षणस्य दिगुपाधे_--ऽङ्गीकारे प्रमाणाभावः । तस्मात् काल एवं गृह्यते । न च कालस्या-ऽप्येकत्वेन दुःखप्रागभावा-ऽधिकरणत्वात् कथं तद्भिन्नत्वम् ? इति वाच्यम् , कालोपाधिविशेषस्य तथात्वात् । स च 'तदानीं महाप्रलयो भविष्यतीति प्रतीतिबलात् चरमध्वंसरूपः स्वीकार्यः ।
अथ पदकृत्यम्-वृत्तिमदित्युक्तौ सिद्धसाधनम् , दुःखत्वस्य दुःखे विद्यमानत्वात् । प्रतियोगिवृत्तीत्युक्तावपि सिद्धसाधनम् , दुःखा-ऽत्यन्ता-ऽभावप्रतियोगिनि दुःखे विद्यमानत्वाद् दुःखत्वस्य । दुःखध्वंसप्रतियोगिवृत्तीत्यभिधाने-ऽपि सिद्धसाधनं तदवस्थम्, यत्किञ्चिदुःखध्वंसस्य स्वीकृतत्वेन दुःखध्वंसप्रतियोगिदःखनिरूपितवृत्तिताया दःखत्वे सचात् । प्रागभावानधिकरणवृत्तिध्वंसेत्याधुक्तौ दृष्टान्तासिद्धिः, प्रदीपा-ऽवयवानां प्रदीपप्रागभावा-ऽनधिकरणत्वविरहात् । दःखप्रागभावानधिकरणेत्याद्यभिधाने तु भवत्येव सङ्गतिः। यतः प्रदीपावयवा दुःखप्रागभावा-ऽनधिकरणभृताः,तद्वत्तियः प्रदीपध्वंसः, तत्प्रतियोगिप्रदीपनिरूपितवृत्तितायाः प्रदीपरत्वे सच्चात् । दःखानधिकरणेत्यायुक्तों खण्डप्रलयकालेऽपि सर्वमुक्तिसिद्धिः स्यात् , अदृष्टाद्यतिरिक्तानां दुःखादीनां तत्र विरहात् । तेन दुःखग्रागभावानधिकरणेत्यायुक्तम् , लभ्यते च खण्डप्रलये दःखप्रागभावः, दुःखाद्युत्पादकाऽदृष्टस्य सच्चात् । दुःखप्रागभावा-ऽनधिकरणवृत्त्यभावप्रतियोगिवृत्तीत्युक्तौ दुःखा-ऽन्योन्याभावमादाय प्रकृता-ऽन्यसिद्धः, तथाहि-दःखप्रागभावा-ऽनधिकरणं व्योम, तद्वत्तिों दःखान्योन्याभावः, तत्प्रतियोगि दुःखम् , तन्निरूपितवृत्तिता दुःखत्वे संसारावस्थायामपि समस्ति । तस्माद् दुःखप्रागभावा-ऽनधिकरणवृत्तिध्वंसप्रतियोगिवृत्तीति सूपपन्नम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org