________________
श्रीवर्धमानोपाध्यायमतेन मोक्षानुमानम् ] मोक्षस्त्ररूपविचार:
[ ५२१
तथा महाप्रलयमभ्युपगच्छतां नैयायिकानां मतेन चरममुक्त जीवगतदुःखध्वंसस्य दुःखप्रागभावा-ऽसहवृत्तितायाः सत्त्वे- ऽपि द्विचरमादिमुक्तगतदुःखध्वंसे दुःखप्रागभाववृत्तितायाः सच्चादव्या। तेन समानाधिकरणेति दुःखप्रागभावस्य विशेषणम् । सामानाधिकरण्यञ्च विशेष्यीभूतदुःखध्वंसनिरूपितं बोध्यम् ।
प्रमाणयन्ति च प्राञ्चः - दुःखसन्ततिरत्यन्तमुच्छिद्यते, सन्ततित्वात्, प्रदीप सन्ततिवदिति । तदसत् सन्तानत्वहेतोरनेकदोषदुष्टतया प्राक्प्रदर्शितत्वात् ।
"
आत्मकालाऽन्यवृत्तिध्वं पप्रतियोग्यवृत्तिदुःखत्वं दुःखप्रागभावाऽनधिकरणवृत्तिध्वंस प्रतियोगिवृत्ति, सत्कार्य मात्रवृत्तित्वात्, प्रदीपत्यवदिति श्रीवर्धमानप्रभृतयः प्राहुः |
अथादपक्ष विचार्यते-आत्म कालतोऽन्यो य आकाशादिः, तद्वृत्तिर्यः शब्दादिध्वंसः, तत्प्रतियोगिनो ये शब्दादयः, तत्रा-वृत्ति दुःखत्वमिति पक्ष: ।
9
अथ पदकृत्यम्-दुःखत्वमित्युक्तौ शब्दादिवृत्तित्वेनाऽर्थान्तरम्, तद्वारणाय पक्षविशेषणम्, बावस्था-ऽस्फूर्तिदशायां तत्सामर्थ्यात् । बाधज्ञाने जाते तु व्यर्थं स्यात् उक्तंच श्रीपद्मनाभमिश्रेणाऽपि प्रशस्तपादभाष्यस्य सेतुव्याख्यायाम् - " ननु बाधादेव शब्दवृत्यर्थान्तरवारणे आत्मकालान्यवृत्तिध्वंसप्रतियोग्यवृत्तीति पक्षविशेषणं वर्डमानोपाध्यायैः किमुपात्तमिति चेन्न, बालान् प्रति बाधस्फुरणार्थं तदुपादानात्, बाधबोधवतां तस्य वैयर्थ्यात्, अन्यथा महानसादिवह्निरहितपर्वतो वह्निमान् धूमादित्यनुमानापत्तेः ।" इति । तत्राऽप्यवृत्तिदुःखत्वमित्येतावन्मात्रे भणित आश्रयासिद्धिः, दुःखत्वस्य दुःखवृत्तित्वात् 1 ध्वंसप्रतियोग्यवृत्तिदुःखत्वेत्युक्तावप्याश्रयासिद्धिस्तदवस्था, दुःखत्वस्य दुःखध्वंसप्रतियोगिवृत्तित्वात् । काला- ऽन्यवृत्तिध्वंस प्रतियोश्यवृत्तिदुःखत्वेत्युक्तावप्याश्रयासिद्धिर्न निवर्तते । तथाहि - कालाऽन्यो य आत्मा, तद्वृत्तियों दुःखध्वंसः, तत्प्रतियोगिवृत्तित्वाद् दुःखत्वस्याश्रयासिद्धिस्तदवस्था | आत्माऽन्यवृत्तीत्याद्यभिधाने ऽपि सैवाश्रयाऽसिद्धिः, तद्यथा- आत्माsन्यो यः खण्डकालः, तद्द्वृत्तियों दुःखध्वंसः, इदानीं दुःखं ध्वस्तमिति खण्डकाले दुःखध्वंसप्रतीतेः, तत्प्रतियोगिवृत्तित्वाद् दुःखत्वस्याऽऽश्रयासिद्धिर्न निवर्तते ।
न चात्मकालपदोपादाने ऽप्यात्मकालतो ऽन्या दिक् तदुपाधिः कालोपाधिरात्मोपाधिर्वा, तद्वृत्तिर्यो दुःखध्वंसः, तत्प्रतियोगिदुःखवृत्तित्वाद् दुःखत्वस्याऽऽश्रयासिद्धिस्तदवस्थैवेति वाच्यम्, उपलक्षणेन तद्ग्रहणात् । अयम्भात्रः - कालेत्युपलक्षणम् तेन दिक् तदुपाधिः कालोपाधिश्च गृह्यन्ते । आत्मेत्युपलक्षणम्, तेन तदुपाधेः शरीरादेर्यहणम् तेन नाऽऽश्रयासिद्धिः ।
,
अथ साध्यं विचार्यते - दुःखप्रागभावाऽनधिकरणं महाप्रलयः, तद्वृत्तियों दुःखध्वंसः, तत्प्रतियोगदुःखनिरूपितवृत्तिताऽस्ति दुःखत्वे, दुःखत्वस्य दुःखे वर्तमानत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org