________________
५२० ]
खवगढी
[ गाथा-२६७
रविशेषः स्यादिति चेत्, मैवम्, यद्यप्युक्तवच्या सर्वात्मना बुद्धयादिविशेषगुणानामुच्छेदो मोक्षः प्रतिषिध्यते, तथापि कथञ्चित् तेषामुच्छेद इष्यत एव ।
,
तथाहि - बुद्धिशब्देन ज्ञानमुच्यते तच्च पञ्चविधम् मति श्रुताऽवधि मनः पर्याय- केवलमेदात् । तत्राद्यं ज्ञानचतुष्कं केवलज्ञानलाभकाले व्यवच्छिद्यते, क्षायोपशमिकत्वात् । यदुक्तमावश्यकनियुक्त - "उष्पन्नंमि अणंते नट्ठम्मि अ छाउमन्थिए नाणे ।" इति । केवलज्ञानं तु निखिलद्रव्य पर्यायसाक्षात्कारिस्वरूपं क्षायिकत्वेन निष्कलङ्कात्मस्वरूपत्वात् समस्त्येव ।
सुखं तु वैषयिकं तु तत्र नास्ति, तन्निमित्तस्य वेदनीयस्य समूलकाक्षं कपितत्वात् । यत्तु निरतिशयमक्षयमनपेक्षमनन्तं सुखम् तत् तत्र प्रभूतं विद्यते ।
>
"
दुःखं तु न विद्यते, तस्या-ऽधर्ममूलत्वात् तदुच्छेदाच्च तदुच्छेदोपपत्तेः । नन्देवं सुखमपि न सम्भवति, तन्मूलस्य धर्मस्योच्छेदात् । न च धर्मस्योच्छेदोऽसिद्ध इति वाच्यम् "पुण्यपापक्षयो मोक्षः" इत्यागमवचनेन तत्सिद्धेरिति चेत्, मैवम्, वैषयिकस्य सुखस्य धर्ममूलत्वादस्तु तदुच्छेद:, न पुनरनपेक्षस्याऽपि सुखस्योच्छेदः ।
इच्छाद्वेषयोस्तु समस्त्येवाऽभावः तयोर्मोहभेदत्वात्, मोहस्य च समूलकाषं कपितत्वात् । प्रयत्नश्च क्रियाव्यापारगोचरो नास्ति, कृतकृत्यत्वात् । वीर्यान्तरायक्षयोपनतस्तु भवत्येव, दानादिलब्धिवद् |
धर्मा-र्धमयोस्तु पुण्यपापा - ऽपरपर्याय बोरुच्छेदो भवत्येव तदभावे मोक्षस्याऽसम्भवात् । संस्कारस्तु मतिज्ञानविशेषोऽस्ति; मतिज्ञानस्य च क्षीणक पायगुणस्थानके "नम्मि अ छाउमथिए नाणे" इति वचनाद् व्यवच्छित्तेः संस्कारोऽप्युच्छिद्यते ।
केचिद् नैयायिक-वैशेषिकादयः पुनः प्राहुः - समानकालीन समानाधिकरणदुःखप्रागभावासमानेदेशो दुःखध्वंसो मोक्ष इति । तत्र च यद् यत् स्वसमानकालीनस्वसमानाधिकरणदुःखप्रागभावसमानदेशमिदानीन्तनदुःखध्वंसादि तत्तद्भिन्नो दुःखध्वंसो मोक्ष इति वक्तव्यम्, अन्यथा चरमदुःखध्वंससमानकालीन समानाधिकरणदुःखप्रागभावस्था ऽप्रसिद्धिप्रसङ्गः । वस्तुतस्तु समानकालीनविशेषणस्याऽनावश्यकतया समानाधिकरणदुःखप्रागभावाऽसहवृत्तिदुःखध्वंसो मोक्ष इति निदुष्टं लक्षणम् । इह दुःखध्वंस इत्युक्तौ संसारिणामपि यत्किञ्चिद् दुःखादीनानात्मविशेषगुणानां ध्वंससद्भावात् संसारिणामपि मुक्तत्वव्यपदेशः स्यादित्यतिव्याप्तिवारणाय वृत्यन्तम् । तत्राऽप्यसहवृतीत्येतावन्मात्रेऽभिहिते ऽसम्भवः स्यात्, दुःखध्वंसस्य केनचिदत्यन्ताभावादिना सहवृत्तित्वात् । अभावाऽसहवृत्तीतिकथनेऽप्यसम्भवदोषस्तदवस्थ एव । प्रागभावा- सहवृत्तीतिभणनेऽपि संयोगादिप्रतियोगिक प्रागभावादिकमादाया- ऽसम्भवः, दुःखध्वंसकाले ऽपि संयोगादय उत्पत्स्यन्त इति प्रतीतेः सर्वजनप्रसिद्धत्वेन संयोगादिप्राग मात्र सहवृत्तित्वाद् दुःखध्वंसस्येति प्रतियोगितया दुःखपदोपादानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org