________________
नैयायिकमतखण्डनम् ] मोक्षस्वरूपविचारः
[ ५१९ स्येवान् प्रभावः, यत्तस्मिन्नुदिते चिरकालसश्चितान्यपि कर्माण्यपि सहसैव विलयं गच्छन्ति । तेन 'यथैधांसि” इत्यादि, शैलेशीकरणसर्वसंवररूपचारित्रोपवाहिततत्त्वज्ञानाने साक्षात् सश्चितकर्मक्षये कारणतेति व्याख्येयम् , न तु परम्परया कायव्यूहद्वारा । एवञ्च
___ “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे पारावरे ॥१॥” इति श्रुतिवचनमपि सङ्गच्छेत ।
किश्च तादृशतच्चज्ञानस्य सश्चितकर्मक्षये सामर्थ्यमुष्णस्पर्शदृष्टान्तेन बोध्यम् । तथाहि-ताहशतचज्ञानस्या-ऽऽगामिकर्माऽनुत्पादसामर्थ्यवत सञ्चितकर्मप्रक्षयेऽपि सामर्थ्य समस्त्येव, यथा भाविशीतस्पर्शाऽनुत्पत्तौ समर्थस्योष्णस्पर्शस्थ पूर्वप्रवृत्तशीतस्पर्शनाशेऽपि सामर्थ्य दृष्टम् ।
इदन्त्ववधेयम्-परिणामिजीवादिपदार्थसार्थविषयमेव ज्ञानं तचज्ञानम् , न त्वेकान्तनित्यानित्यात्मादिविषयकम् , तस्य विपरीतार्थग्राहकत्वेन मिथ्यात्वव्यपदेशात् । मिथ्याज्ञानस्य तु मुक्तिहेतुत्वं परैरपि नेष्यते ।
यच्योक्तं-"तत्त्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानाद्भवतु" इति,तदुपपन्नम् , सम्यग्दर्शनचारित्रोवहितसम्यग्ज्ञानस्य भूत-भाविकर्म सम्बन्धप्रतिघातकत्वेन मुक्ति प्रत्यवन्ध्यकारण
त्वात् ।
यत्तु 'इतरेषान्तूपभोगाद्" इत्यभिहितम् , तदनुपपन्नम् , उपभोगेन कर्मक्षयानुपपत्तेदर्शितत्वात् ।
यत्तु तचज्ञानिनां नित्यनैमित्तिकानुष्ठानं प्रतिपादितम् , तदिष्टमेव स्याद्वादवादिनाम् , केवलज्ञानोत्पत्तेः प्राक् काम्यनिषिद्धानुठानपरिहारेण नित्यनैमित्तिकयोञ्जनावरणादिदुरितक्षयनिमित्तत्वाद् मोक्षप्राप्तिहेतुत्वाच्च । किन्तु केवलज्ञानलाभोत्तरकालं शैलेशीकरणावस्थायां सकलभवोपग्राहिकर्मनिर्जरस्वरूपायां सर्वक्रियाप्रतिषेध एव स्याद्वावादवादिभिरभ्युपगम्यते; ततश्च ना. ऽदृष्टस्योत्पत्तिः, आत्यन्तिक्यास्तन्निमित्तप्रवृत्तिनिवृत्तः।
यच्चोक्तम् “न चेत्थं मिथ्याज्ञानध्वंसादिक्रमेण विशेषगुणोच्छेदविशिष्टात्मस्वरूपमुक्त्यभ्युपगमे तादृशमुक्तेस्तत्त्वज्ञानकार्यत्वादनित्यत्वमिति वाच्य"मित्यादि,तद् न युत्तम् , विशेषगुणोच्छेदविशिष्टात्मस्वरूपमुक्तः प्रतिविहितत्वात् , बुद्धयादीनामात्यन्तिकोच्छेदस्य प्रमाणवाचितत्वात् , आत्मनश्चेकान्तनित्यत्वविरहात् , बुद्धयादीनां च कश्चिदात्मना सह तादात्म्यात् ।
नन्वेवं यदि स्याद्वादवादिभिर्बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माऽधर्म-संस्काराणां विशेषगुणानामुच्छेदो मोक्षो नेष्यते, तर्हि धर्मा-ऽधर्मादीनां तत्रा-ऽनुवृत्तिप्रसक्त्या संसार-मोक्षयो(१) पृ० ५१० पं० २४ । (२) पृ० ५१७ पं० २५ । (३) पृ० ५११ पं० १५ । (४) पृ० ५११ पं० २५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org