________________
५१८ ]
[ गाथा - २६७
'यच्च "समाधिबलादुत्पन्नत्तत्त्वज्ञानस्या ०" इत्यादि प्रोक्तम्, तदप्यसङ्गतम्, अभिलारूप रागाद्यभावे भवदभिप्रायेण ऋद्धिविशेषवता योगिना तच्चज्ञानादवगतकर्मसामर्थ्येन नानाशरीराणि विधाया - ऽङ्गनाद्य पभोगा ऽसम्भवात्, तत्सम्भवे वाऽवश्यंभावी नृपत्यादेरिवाऽतिभागिनो योगिनोऽपि प्रचुरतरकर्मोत्पादः ।
asगसेढी
श्यच्च "यत उपभोगं विना कर्मणां प्रक्षयाऽनुपपत्तितस्तच्वज्ञानिनस्तदुपभोगाऽभिलाषाभावेऽपि तत्र कर्मक्षयार्थित्वेन तस्य प्रवृत्तिर्घटते वैद्योपदेशेनाSSतुरस्येवौषधाचरणे" इत्याद्युक्तम् तदप्यभिधानमात्रम्, आतुरोऽपि नीरुग्भावाभिलाषेणैत्र प्रवर्तत औषधाद्याचरणे । न च मुमुक्षोर्मुक्ति सुखाऽभिलाषेण प्रवर्तमानस्य सरागत्वं स्यादिति - वाच्यम्, सूक्ष्मसम्पराये रागविगमस्य प्राक प्रसाधितत्वात् । अतः कथं प्रोक्तदृष्टान्तादभिलापरहितस्य तच्चज्ञानिनस्तत्त्वज्ञानमात्रात् कर्मक्षयार्थितया स्त्र्याद्युपभोगः साधयितुं शक्यः, - दाष्टन्तिकयोर्वैषम्यात् ।
'यच्चोक्तम् 'तत्त्वज्ञानस्य साक्षात् कर्मविनाशेव्यापाराभावात् । तत्त्वज्ञानं हि निखिलशरीरोत्पत्तिद्वारेणोपभोगात् कर्मणां विनाशे व्याप्रियत" इत्यादि, तदप्यविचारिताऽभिधानम्, दृष्टविपरीतकल्पनाप्रसङ्गात्, मनुष्यादिशरीरादिसच्चे च शूकरादिशरीरा ऽनुत्पत्तेः । इदमुक्तं भवति वामदेव सौभरिप्रभृतीनां कायव्यूह श्रवणात् तच्चज्ञानेन तत्तत्फलोपभोगोचितकार्यं निर्माय भोगेन कर्मक्षय भवतीति परमतम्, एतच्चा ऽयुक्तम् ; नह्येकदैकस्य जीवस्यानेकान्यौदारिकादिशरीराणि दृष्टानि, कायव्यूहाभ्युपगमे तु दृष्टविपरीतानामेकदैव शूकर- खर- मृग-तुरगमनुजादिनानाशरीराणां कल्पनं प्रसज्यते । किञ्च तत्वज्ञानिनां तत्तच्छरीरफलोपभोगाय शूकर-तुरङ्ग-विहङ्ग - शृगाल-बिडाल-कुक्कुरादिशरीरपरिग्रहोपगम एकस्मिन् भवे भवसहस्रसाङ्कर्यं स्यात् । तथा केषाञ्चित् तत्वज्ञानिनां नरकादिदुःखजनक ब्रह्महत्यादिप्रयोजकादृष्टस्य सद्भावे नारक - ब्रह्मघात कादिशरीरोपग्रहः स्यात् । न चाऽस्त्वेतद् का विप्रतिपत्तिः ? इति वाच्यम्, ब्रह्मघातिनां तच्चज्ञानानुपपत्तेः । न च नरकादिदुःखजनक - ब्रह्महत्यादिप्रयोजकादृष्टस्याऽभावे सत्येव तत्त्वज्ञानोत्पत्तिरस्ति ततश्च न तत्त्वज्ञानिनां नारक - ब्रह्मघातकादिशरीरपरिग्रह इति वाच्यम्, तुल्यन्यायेन शूकर तुरङ्गकुरङ्गशरीरोत्पादका-ऽदृष्टविरह एव तचज्ञानोत्पत्तिरिति वक्तु ं शक्यत्वात् । न च " नाभुक्तं क्षीयते कर्म" इति स्मृत्या सह विरोधः स्यादिति वाच्यम्, "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायेन प्रारब्धकर्मपरत्वेन व्याख्यानात् । तदेवं सकलकर्म न केवलं सुखदुःखादिफलोपभोगात् क्षीयते, न वा तच्चज्ञानात् । किन्तु प्रारब्धं कर्म सुखदुःखादिफलोपभोगाद् नश्यति, सञ्चितं तु मिथ्याज्ञाननिवृत्त्यादिक्रमेण पापक्रियानिवृत्तिलक्षण चारित्रोपहितात् तच्चज्ञानात् प्रणश्यति, यतस्तादृशस्तच्चज्ञान
,
(१) पृ० ५१० पं० ६ । (२) पृ० ५१० पं० १४ (३) पृ० ५१० पं० २१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org