________________
नैयायिकमतखण्डनम ] मोक्षस्वरूपविचारः
[ ५१७ ____ अथ विरुद्धत्वाद् मुको ज्ञानावनाष इष्यत इति चेत् , न, स्वरूपेण कस्यचित् विरोधा-s भावात् । प्रतिबन्धककर्मापायोपेतस्वात्मनः स्वरूपमेवाऽनन्तज्ञानादिविशिष्टत्वम् , न च स्वरूपेण सह विरोधो न्याय्यः । अभ्युपगते च विरोधे महेश्वरज्ञानादीनामप्यभावः प्रसज्येत, अविशेषात् ।
अन्यच्च प्रदीपनिर्वाणवादिनः सौगताद् भवतः को विशेषः, सौगतेन हि स्वरूपेणा-ऽऽत्मनोऽसचमभ्युपगतम् , यद्युक्तं सौन्दरनन्दमहाकाव्ये श्रीभदन्ताश्वघोषण
"यस्मिन्न जातिनं जरा न मृत्युन व्याधयो ना-ऽप्रियसम्प्रयोगः । नेच्छाविपन्नप्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत् ॥१॥ दीपो यथा नित्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ॥२॥ एवं कृती नित्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशंन काञ्चिद्विदिशं न काश्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥३॥"
इति ।
भवता तु सतोऽप्यस्यात्मनो बुद्धयादिगुणविकलत्वमभ्युपगम्यते, बुद्धयादिगुणविकलतायाश्च प्रमाणाभावादसत्त्वम् । बुद्धयादिगुणविकलत्वं हि सरूपं केन प्रमाणेन प्रतीयते-किं प्रत्यक्षेणाऽनुमानेन वा ? अथ प्रत्यक्षेण, तर्हि किमिन्द्रियप्रत्यक्षेण, उत योगिग्रत्यक्षेण । न तापदायेन, मोक्षे तस्या-ऽसम्भवात् । नाऽपि द्वितीयेन, योगिभिरात्मनोऽनन्तज्ञानादिमत्त्वेन प्रतीतेः ।
नाऽप्यनुमानतः प्रतीयते, यत इन्द्रियप्रत्यक्षाभावे भवन्मते-ऽनुमानस्या-ऽनुदयः “तत्पूर्षकं त्रिविधमनुमानम्” (गौ-१-१-५) इति गौतमवचनात् ।
___ 'यदुक्तम् 'तत्त्वज्ञानस्य मिथ्याज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतुत्वेन प्रतिपादनात्" इत्यादि, तदुपपन्नम् , सकलबुद्धयादिगुणोच्छेदस्तु नोपपद्यते, तत्त्वज्ञानाद् विपर्ययज्ञानव्यावृत्तिक्रमेण धर्मा-ऽधर्मयोस्तत्कार्यस्य शरीरादेरभावेप्यनन्तातीन्द्रियजसकलपदार्थविषयकसम्यरज्ञानप्रशमसुखादिसन्तानस्य व्यावृत्तेरभावात् ।
यच्चोक्तम्-"आरब्धशरीरेन्द्रियविषयकार्ययोर्धर्माधर्मयोः सुखादिफलोपभोगात् प्रक्षयः" इत्यादि , तदप्यपेशलम् , तदुपभोगसमयेऽपरकर्मनिमित्तस्या-ऽभिलापपूर्वकस्य मनोवाक्कायव्यापारस्वरूपस्य सम्भवादविकलकारणस्य प्रचुरतरकर्मणः सद्भावात् कथमात्यन्तिकप्रक्षयः स्यात् ।
यच्चोपभोगात् सकलकर्मप्रक्षयेऽनुमानमुपन्यस्तम् , तदप्यसुन्दरम् , यतः कर्मत्वहेतुः सन्तानत्ववदसिद्धयायनेकदोषदुष्टः, तेन न प्रकृतसाध्यसाधकः ।
(१) पृ० ५०९ पं० २ । (२) पृ० ५०९ पं० ९ (३) पृ० ५०९ पं० २४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org