________________
५१६ ]
खवगसेढी
! गाथा-२६७ तेषामनन्तत्वम् , यतः प्रतियोगितासम्बन्धेन ध्वंसत्वावच्छिन्न प्रति तादात्म्यसम्बन्धेन जन्यभावत्वेन कारणमिति कार्यकारणभाव इति चेत् ,न, अभाववत् कस्यचिद् भावस्या-ऽप्यविनाशसम्भवाद् जन्यभावत्वेन नाशहेतुत्वे मानाभावाच्च । एतदुक्तं भवति-यथा जन्यस्य ध्वंसस्य विनाशा-ऽभावेन विनाश-जन्याभावयोः कार्यकारणभावो न सम्भवति, तथैवा-ऽऽगमसिद्धस्य मुक्ताऽवस्थाज्ञानसुखादिकस्य विनाशाभावेन विनाश-जन्यभावयोरपि न कार्यकारणभावः । ननु यद्येवं नाशजन्यभावगेः कार्यकारणभावविरहः, तर्हि पथा जन्यस्य कस्यचिद् घटाद्यात्मक गावस्य नाशो भवति, कस्यचिच्च मुक्तावस्थाज्ञानसुखादिकस्य न भवति, तथा-ऽजन्यस्याऽपि कस्यचिद् नाशः, कस्यचिच्च नेति चेत् , मैवम् , नाशकारणानां नाश्यनिष्टतयैव हेतुत्वेन दोषा-ऽभावात् । अयं भावः-मुद्गरसंयोगादेः कारणतानियामकेन सम्बन्धविशेषेण स्वसमवापिसंयोगादिना नाश्ये घटादौ वृत्या घटादिनाशं प्रति मुद्गरसंयोगादे शकारणता,तेन ना-जन्यस्य नाशा-ऽऽपत्तिः,नाशकारणविरहात् ,एवमेव मुक्तावस्थायां न ज्ञानसुखादिनाशा-ऽऽपत्तिः । न च शरीरायभावस्य तादृशज्ञानसुखादिविनाशं प्रति हेतुता समस्तीति वाच्यम् , अभावस्य तुच्छत्वेन नाशकारण या-ऽयोगात् ।
___ अपि च प्रतियोगितासम्बन्धेन नाशं प्रति जन्यभावत्वेन हेतुत्वे स्वीकृते कारणता-वच्छेदको जन्यत्वं न प्रागभावप्रतियोगित्वं ग्रहीतुं शक्यते, गुरुभूतत्वात् , किन्तु कालिकसम्बन्धेन घटत्वादिमच्चस्य कारणतावच्छेदकत्वकल्पनमुचितम् , लघुभृतत्वात् । एतदुक्तं भवति-कालिकसम्बन्धेन घटत्वादिमत्त्वस्य जन्यमात्रवृत्तिता नैयायिकैः स्वीक्रियते, कालाऽतिरिक्तनित्यपदार्थे तु घृत्तिः कालिकसम्बन्धेन ना-ऽभ्युपगम्यते "नित्येषु कालिका-ऽयोगात्" इति वचनात् । ततश्च प्रतियोगितासम्बन्धेन नाशं प्रति जन्यभावत्वं हेतुरित्यत्र प्रागभावप्रतियोगित्वा-ऽपेक्षया लघुत्वेन कालिकसम्बन्धेन घटत्वादिमत्त्वस्यैव कारणतावच्छेदकत्वकल्पनमुचितम् , तत्रा-ऽपि घटत्वादिमवस्यैवाऽवच्छेदकत्वं न पटत्यादिमचस्येति विनिगविरहात् , घटत्व-पटत्वादिमचादीनामवच्छेदकत्वं वाच्यम् । तथा च सत्यवच्छेदकानां नानात्वं स्यात् ।
किञ्च जन्यभावत्वेन नाशहेतुत्वेऽपि मुक्तौनसुखादिध्वंसः,यतो योग्पविभुविशेषगुणान् स्वोत्तरवर्तियोग्यविभुविशेषगुणा नाशयन्तीति नैयायिकसिद्धान्तसद्भावात् प्रतियोगितासम्बन्धेन योग्यात्मविशेषगुणनाशं प्रत्येकाधिकरण्यावच्छिन्नम्वपूर्ववृत्तितासम्बन्धेन योग्यविशेषगुणत्वेन हेतुत्वमित्यपि नैयायिकमते कार्यकारणभावोऽस्ति, मुक्तौ तु योग्यविशेषगुणोत्पत्त्यभावाद् न पूर्वविशेषगुणानां नाशः स्यात् । ततश्च मुक्त्यवस्थायामप्यनन्तज्ञानादिकं निराधाधम् । अनन्तातीन्द्रियज्ञानसद्भावश्च यथा भवति, तथा सयोगिकेवलि-गुणस्थानाधिकार आगमरीत्या दर्शितः । अनन्तातीन्द्रियसकलपदार्थविषयकज्ञानसाधकमनुमानप्रमाणमप्यस्ति । तद्यथा-ज्ञानतारतम्यं क्वचिद् विश्रान्तम्, तारतम्यशब्दवाच्यत्वात् , परिमाणवदिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org