Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
मुद्रणे द्रव्यसहायाः ] खवासेढी
[५६३ विभूषिता धर्मपरायणा बदामीनाम्नी गृहिणी कुलाचारचरणवर्या समस्त्यद्यापि । तथा दीनताग्रीष्महेमन्त इव हेमन्तः पुण्यपृथ्वीन्द्र इव नरेन्द्रश्च सुखयन्ती दमयन्ती धर्मवसुमती हसुमती च पुत्रपुत्र्यो विनयान्विता नन्दन्ति ।
एकदा पुण्यप्राप्तसमृद्धिशालिभ्यां श्रेष्ठिखुवचन्द-रतनचन्दनामभ्यां क्रमेण हारभगिनीपतिभ्यामग्निरथविश्रामस्थाने ( स्टेशन ) सिरोहोरोउनामकेऽनेकयात्रिकाणामहदर्श विरहं संलक्ष्य सम्यग्दर्शनादिविशुद्धये भव्यं नव्यं जिनमन्दिर निर्मापयितु सङ्कल्पः कृतः । ततश्चतुर्दशाधिकविंशतिशततमवैक्रमाब्दे (२०१४)श्रीसिरोहीरोडाभिधेऽग्निरथविश्रामस्थाने रम्ये भूमिभागे जिनप्रासादनिर्मापणार्थ शिलारोपणं व्यधत्त ताभ्याम् । ततः क्रमेण सपादलक्ष. रूप्यकवनव्ययेन महामण्डपमण्डितं चारुपञ्चालिकापरिवृतं तुङ्गतोरणराजिष्णु साक्षात्सिद्धालयोपमं श्रीजिनगेहं निर्माप्य तत्र वैराग्यवारांनिधिश्रीमद्विजययशोदेवसूरिवर-श्रीमद्मानविजयाद्यकादशपन्न्यापरा-ऽनेकस्थविर-बाल-युव-वृद्ध-शतातीतशिष्यप्रशिध्यमुनिव्रातपरिवृतैः प्रतिक्षिप्तलुम्पाकमत-न्यायाम्भोविश्रीमद्विजयानन्दसूरीश्वरपट्टधरनिःस्पृहशिरोमणि-सच्चारित्रचूडामणि-श्रीमद्विजयकमल सूरीश्वरपदृधारि-पाठकवरश्रीमदीरविजयविनेयरत्न-सकलागमरहस्यज्ञ-परमगीतार्थाऽशेपशेमुषीशालिकुलविद्वस्यमान-श्रीमद्विजयदानसूरीश्वरपट्टधरैः स्वगुरुप्रदत्तसिद्धान्तमहोदधिपदधारिभिर्गच्छाधिपतिभिः श्रीमद्विजयप्रेमसरीश्वरैः प्रतिष्ठापितम् अर्बुदाचलतीर्थात्समानीतं प्रशमरसकन्दकल्पं श्रीनाथनमिनाथमूलनायकविम्बं पोडशोत्तरविंशतिशततमविक्रमीयवर्षे (२०१६)माधवमासे शुक्लपक्षे चतुर्थ्या तिथौ शुभे च मुहूर्ते महता महेन । तदानीमन्यान्यपि प्रतिष्ठापितानि दर्शनमात्राद् दुरितध्वंसीनिश्रेष्ठिरतनचन्द-खुबचन्दद्रव्यनिर्मापितानि चत्वारि श्रीचन्द्रप्रभस्वाम्यादिविम्बानि । अपि च तद्दिने हर्षातिरेकेण चतुर्विधः सङ्घोऽनेकविधसामग्रीभिर्मिष्टान्नादिभिः सत्कारितः सन्मानितश्च विनयवचनप्रतिपच्या पुण्यभाग्भ्यां ताभ्याम् । तदनु तद्वष तन्मासतत्पक्षस्य षष्ठयां तिथ्यां श्रीपिण्डवाडानगरस्थद्विपञ्चाशद्देवकुलिकाकलितविश्वानन्ददायकजिनमन्दिरे श्रीवीरविभुमूलनायकबिम्बस्य प्रतिष्ठावसर एकाधिकपञ्चसप्ततिसहस्ररूप्यकोत्सर्पगेन स्वमातृमनोरथपूरणायोत्तुङ्गप्रासादशिखरे ध्वजारोपणं कृतवान् सोत्साहस्तज्जिनगेहे निर्मापितैकदेवकुलिको वदान्यः खुबचन्दनामा श्रेष्ठी।
ततः सप्तदशाधिकविंशतिशततमे (२०१७)वैक्रमाब्दे श्रीपिण्डवाडानगरे वर्षावासं कृतवति गच्छाधिपतौ श्रीमद्विजयप्रेमसूरीश्वरप्रभौ वन्दनादिकार्थमागतवन्तौ श्रेष्ठीरतनचन्द्रखुषचन्दनामानौ । श्रतश्च पूज्यगच्छाधिपतिश्रीमुखात् प्राचीनकर्मशास्त्राधारेण सरलसुबोधपद्धत्या बहुविस्तराभिनवकर्मशास्त्राणां निर्माणोदन्तः । ततः श्रुतभक्तिनिभृतचेतसो तिमिकोशतङ्गतरलकमलाव्ययेन सुवर्णगिरिवत् स्थिरां मोक्षश्रियं प्राप्तुकामौ तौ दशसहस्राणि रूप्यकाणि क्षपक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786