Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 706
________________ साञ्जयमलेन पञ्चविंशतितत्त्वानि] मोक्षस्वरूपविचारः [५४९ बुद्धेः कार्यो-ऽहङ्कारः । स चा-ऽभिमानात्मकः, अहं शब्दे, अहं स्पर्शे, अहं गन्धे, अहं रसे, अहमीश्वरः, असौ मया हतः, ससच्चो-ऽहं हनिष्यामीत्यादिप्रत्ययरूपः । अहङ्कारात् पञ्चतन्मात्राण्युभयं चेन्द्रियमिति कार्यद्वयमुत्पद्यते । तत्र पञ्चतन्मात्राणि शब्दतन्मात्रादीन्यविशेषरूपाणि सक्ष्मपर्यायवाच्यानि । शब्दतन्मात्राच्छब्द उपलभ्यते, एवं स्पर्श-रूप-रस-गन्ध-तन्मात्रेभ्यः स्पदिय उपलभ्यन्ते । __अथोभयेन्द्रियं बाह्या-ऽभ्यन्तरभेदेनैकादशविधम् । तत्र चक्षुः श्रोत्रं नाणं रसनं त्वगिति पञ्चज्ञानेन्द्रियाणि बावपाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि । एकादशं च मनः । पञ्चतन्मात्रेभ्यः पञ्च महाभूतानि समुत्पद्यन्ते । तथाहि-शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः, शब्दस्पर्शतन्मात्र सहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणम् ,शब्द-स्पर्श-रूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्द-स्पर्श-रूप-रसगुणाः, शब्द-स्पर्श-रूप-रसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्द-स्पर्श-रूप-रस-गन्धगुणा पृथिवी जायते । पुरुपस्त्वमूर्तश्चेतनः साक्षादकर्ता-ऽभोक्ता निष्क्रियो निगुणो नित्यः, यदुक्तं श्रीविज्ञानभिक्षुणा साङ्क्षयप्रवचनभाष्ये-"प्रकृतेः कार्यो महान् महत्तत्त्वम् ,महदादीनां स्वरूपं विशेषश्च वक्ष्यते, महतश्च कार्यो-ऽहङ्कारः । अहङ्कारस्य कार्यद्वयम् , तन्माब्राण्युभयमिन्द्रियश्च। तत्रोभयमिन्द्रियं बाह्या-ऽभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां कार्याणि पञ्चस्थूलभूतानि । स्थूलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् । पुरुषस्तु कार्यकारणविलक्षणः ।" इति । प्रकृति-पुरुषयोः संयोगस्त्वन्धपगुवत् । यदुक्तम् ईश्वरकृष्णैः साङ्घयकारिकायाम्"पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः।” इति । पुरुषस्य च चैतन्यशक्तिविषयपरिच्छेदशन्या, अर्था-ऽध्यवसायस्य बुद्धिव्यापारत्वात् । बुद्धिस्तभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, इन्द्रियद्वारेण च बुद्धौ सुख-दुःखादयो विषया प्रतिसङ्क्रामन्ति । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धितोऽव्यतिरिक्तं मन्यते । मुख्यतस्तु बुद्धरेव विषयपरिच्छेदः । तथा चाहुः सांख्यतत्त्वकौमुद्यां श्रीवाचस्पतिमिश्रा:-"सर्वो व्यवहर्ता-ऽऽलोच्य मत्वा 'अहमत्रा-ऽधिकृतः' इत्यभिमत्य 'कर्तव्यमेतन्मया' इत्यध्यवस्यति,ततश्च प्रवर्तते इति लोकसिद्धम् । तत्र यो-ऽयं कर्तव्यमिति विनिश्वयश्चितिसन्निधाना-Sऽपन्नचैतन्याया बुद्धः सोऽध्यवसाय:-त्रुडेरसाधारणो व्यापारः।" इति । ___अचेतना-ऽपि बुद्धिश्चिच्छक्तिन्निधानाच्चैतन्दवतीव प्रतिभासते । यदुक्तं साङ्खयकारिकायामीश्वरकृष्णः-"तस्मात्तत्संयोगादचेतनं चेतनाव दिव लिङ्गम् ।” इति । अनुमानप्रमाणमप्यस्ति-अचेतना ज्ञानादयः, उत्पत्तिमच्चादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786