Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 715
________________ ५५८ ] खवगसेढी [ गाथा. २७१ अयम्भावः- स्याद्वादनयप्रमाणविशारदधर्म देशना दक्ष - पन्न्यास श्रीमद्भानु विजयगणिवराणां शिष्यः प्रशान्तमूर्त्तिः स्वाध्यायरसिको मुनिश्रीधर्मघोषविजयः, तस्य शिष्यो दाक्षियनिधिरजुस्वभाव आगमकर्मप्रकृत्यादिग्रन्थपटुवैयावृत्त्यादिना लब्धगच्छाधिपतिप्रसादो मुनिश्रीजयघोषविजयः । तथोक्तपन्न्यासवर्याणां शिष्यः कर्मप्रकृतिप्रभृतिद्रव्यानुयोगे गणितानुयोगे चाऽप्रतिमशेमुषीशाली शङ्कोत्थानतत्समाधानकुशलो मुनिश्रीधर्मानन्दविजयः । तथोक्तपन्न्यासवर्याणां प्रथम शिष्यः पन्न्यासपदालङ्कृतः सम्पादितगच्छप्रीतिः स्वाध्यायचरण करणेष्वनन्य प्रेरकः श्रीमत्पद्मविजयगण्यासीत्, तच्छिष्यो देशनादक्षो गणितानुयोगेऽपि प्रत्युत्पन्नमतिः शान्तस्वभावो मुनिश्री हेमचन्द्र विजयः । तथा स्याद्वादनयप्रमाणविशारदादि विशेषणविशिष्टोक्तपन्न्यासर्याणां शिष्य मदीयगुरुवर्यो भीमभवोदध्युद्धारको ज्येष्टसहोदरचरोऽष्टमतप आदि विप्रकृष्टतपश्चारी मुनिमतल्लजो जितेन्द्र विजयः, तच्छिष्यो गुणरत्न विजयो मल्लक्षणः । एतैश्चतुर्भिर्मुनिभिः सुविहितगच्छनायक श्रीमद्विजयप्रेमसुरोश्वरप्राध्यापितैः कर्मप्रकृति - सप्तनिका- कषायप्राभृतादिग्रन्थेभ्यः कर्मक्षपणापदार्थाः संगृहीताः, न तु कपोलकल्पिताः । एतेन ग्रन्थस्य सर्वज्ञमूलकत्वं दर्शितम् || २७० ॥ अथ पदार्थसंग्रहानन्तरं किम् ? इत्याह तत्तो य खवगसेढी जिएन्दसिस्सगुणरयणविजयेणं । रइया एत्थ बहुसुया किवाअ खलियं विसोहन्तु ॥ २७२ ॥ ततश्च क्षपकश्रेणिर्जितेन्द्र शिष्यगुणरत्न विजयेन । रचिता ऽत्र बहुश्रुताः कृपायाः स्खलितं विशोधयन्तु || २७१ || इति पदसंस्कारः । ' तत्तो' इत्यादि, 'ततः' कर्मक्षपणापदार्थसंग्रहणानन्तरं 'जितेन्द्र शिष्यगुणरत्नविजयेन' जितेन्द्रस्य = अनन्तरोक्तविशेषणविशिष्टस्य मुनिराजश्री जितेन्द्र विजयनाम्नः पूज्यगुगेः शिष्येण= अन्तेवासिना गच्छाधिपचरणयुगलमुपासमानेन गुणरत्नविजयेन मल्लक्षणेन ' क्षपकश्रेणिः ' प्रस्तुत ग्रन्थस्वरूपा रचिता । सम्प्रत्यात्मन औद्धत्यं परिहरन् बहुश्रुतेषु बहुमानं प्रकटयन् संशोधनविषये च प्रार्थनां विदधानः प्राह-'एत्थ' इत्यादि, 'अत्र' क्षपकश्रेण्याख्यग्रन्थे 'बहुश्रुताः ' आगमविदः 'कृपाया:' अत्र 'गम्ययपः कर्माधारे' (सिद्धहेम ० २-१-४५ ) इत्यनेन सूत्रेण कर्मणि पञ्चमी विभक्तिः, ममोपरि कृपां विधायेत्यर्थः, 'स्खलितं' कृतप्रयत्नस्याऽपि छद्मस्थस्याऽऽवरणादिसामर्थ्यादनाभोगकृतं स्खलनं ‘परिशोधयन्तु' अपनयन्तु यत्र स्खलनं स्यात्, तत्रेदं पदं न सम्यक् इदं तु सम्यगित्यश्रुतानुसारिपदमपनीय श्रुतानुसारिपदं प्रक्षिपन्तु, न पुनस्तैरुपेक्षारूपोऽप्रसादः कर्तव्य इति भावः । ।। २७१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786