Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 708
________________ दिक्षायाः खण्डनम् ] मोक्षस्वरूप विचारः [ ५५१ . न चानायबद्धस्यैव पुरुषस्य दिदृक्षा भवति,बद्धमुक्तस्य तु बद्धावस्थायादर्शनसंपादनेन दिदृक्षायास्तृप्तत्वात् सा न मुक्तावस्थायां भवतीति न मुक्ता दिदृक्षास्वीकारप्रसङ्गः, अंतो नोक्तापत्तिरिति वाव्यम् , यतोऽनायबद्धस्या-ऽपि पुरुषस्येन्द्रियादिरहितत्वेन न तस्य दिदृक्षा संभवति । अपि च नाऽदृष्टे वस्तुनि दिदृक्षा संभवति, इह तु भवता-ऽदृष्टायां प्रकृतौ दिदृक्षाऽभ्युपगम्यते, तच्चायुक्तम् । ननु 'द्रष्टुमिच्छा' दिदृक्षेति कृत्वा सहजैवेह दिदृक्षा, सा चेन्द्रियादिविरहे प्राग्दर्शनविरहे चाऽपि न विरुध्यत इति चेत् , मैवम् , यतो दिदृक्षायाः सहजत्वा-ऽभ्युपगमे आत्मनस्तन्निवृत्तिर्न स्यात् ,आत्मनः स्वाभाविकगुणत्वेन तस्य स्वीकार्यत्वात् । नहि आत्मनः कश्चित् स्वाभाविकगुणो विनिवर्तते । अस्तु वा तन्निवृत्तिः, किन्तु तन्निवृत्त्यभ्युपगमे आत्मनो-ऽपि निवृत्तिप्रसङ्गः, अभिन्नत्वात् । ननु दिदृक्षानिवृत्तौ सत्यामप्यात्मनो न निवृत्तिः, भव्यत्ववदिति चेत् , मैवम् , दृष्टान्तदान्तिकयोवैषम्यात् । तथाहि-भव्यत्वं न केवलजीवरूपम् , किन्तु कर्मवद्धजीवरूपम् । दिदृक्षा तु केवलजीपरूपा, अनादिकालतः पुरुषस्य महदादीनां सम्बन्धाभावे-ऽपि दिदृक्षास्वीकारात् । इत्थं दृष्टान्तदाान्तिकयोवैषम्याद् न युज्यते वक्तुम् भव्यत्ववदि' ति । अपि च महदायभावे-ऽबद्धस्य यथा दिदृक्षा स्वीक्रियते, तथा बद्धमुक्तस्याऽपि स्वीकर्तव्या, उभयत्रापि महदायभावस्याविशेषात् । - नन्वेस्वभावैव दिदृक्षा, या महदादिविकारदर्शनावं कैवल्यावस्थायां निवर्तत इति चेत्, न, यतः कैवल्यावस्थातः पूर्व दिदृक्षायाः सद्भावः, पश्चाबाऽभावः इत्यत्र किं प्रमाणम् ? किश्च महादादिनिवृत्तौ सत्यां कैवल्यावस्थायां दिदृक्षाया निवृत्तेरभ्युपगमात् सा प्रकृतिस्वरूपा प्रकृतितुल्या वा स्यात् , पुरुषस्वरूपाऽभ्युपगमे दिदृक्षानिवृत्या पुरुषस्य कूटस्थनित्यत्वव्यापातप्रसङ्गात । एवञ्च प्रकृतिवद् दिदृक्षा पुरुषतो व्यतिरिक्ता सिध्येत् , ततश्च पुरुषस्य दिदृक्षेति वस्तुं न युज्येत । किश्च दिदृक्षा प्रकृतिस्वरूपाऽपि न सम्भवति, अबद्धस्य प्रकृतिविरहदशायाममि तदभ्युपगमात् । ना-ऽपि प्रकृतितुल्या काचिदतिरिक्ता, प्रकृति-पुरुषाभ्यामन्यस्य सायरनभ्युपगमात् । तस्मादसत्कल्पा दिदृक्षेति पर्यवस्यति । अथा-ऽस्तु कल्पिता दिदृक्षति चेत् ,न, यतः कल्पितायां कथं प्रमाणप्रवृत्तिः १ तदेवं दिहक्षाया अनुपपन्नत्वेन तत्प्रयोज्यस्य दर्शनस्याऽप्यनुपपचेर्न युज्यते पुरुषस्य प्रकृतिसंयोगे हेतुता । किश्चायमात्मा प्रकृतिमुपाददानः पूर्वावस्थां किं जह्यानवा ? आद्यपक्षे आत्मनोऽनित्यत्वापत्तिः। द्वितीये तु तदुपादानमेव दुर्घटम् , नहि बाल्यावस्थामपरित्यजन् देवदत्तस्तरुणत्वं प्रतिपद्यते । तन्न साङ्खयमते प्रकृतिसंयोगो घटते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786