Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 707
________________ ५५० ] खवगसेढी [गाथा-२६७ यदा तु “दुःखहेतुरियं प्रकृतिः, ना-ऽनया सह संसर्गो युक्तः" इति विवेकख्यातिर्भवति, तदा प्रकृतिर्निवर्तते,कृतकार्यत्वात् । यथा पारिषद्यान् नृत्यं दर्शयित्वा नृत्याद् नर्तकी निवर्तते । यदुक्तं साङ्घयकारिकायाम्-"रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथा-त्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥१॥" इति । निवृत्तायां च प्रकृतौ च पुरुषस्य स्वरूपेणा-ऽवस्थानं मोक्ष इति । स्वरूपं च चेतनाशक्तिरपरिणामिन्यप्रतिसंक्रमा प्रतिदर्शितविषयाऽनन्ता च, अतस्तदात्मक एव मुक्तात्मा. न पुनरानन्दादिस्वभावः, तस्य प्रकृतिकार्यत्वात , तस्याश्च निवृत्तत्वात् । ननु पुरुषो निगुणोऽपरिणामी,कथं तस्य मोक्षः, मुचेबन्धनविश्लेषार्थत्वात् , सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसम्भवात् ? अत एव न तस्य प्रेत्यभावा-ऽपरनामा संसारोऽप्यस्ति, निष्क्रियत्वादिति चेत् , न, यतः प्रकृतिरेव नानाश्रया सनी वध्यते संसरति मुच्यते चेति, पुरुषे तु बन्ध-मोक्ष संभारा उपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचयेते, जयपराजया-ऽऽश्रयेण भृत्यानां तद्भागित्वात् जय-पराजयफलस्य च शोकलाभादेः म्वामिनि सम्बन्धात् , तथा भोगापधर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषे सम्बन्ध इति । ___ अत्र प्रतिविधीयते-या खलु प्रकृत्यादिप्रक्रिया दर्शिता,सा-ऽनुपपन्नैव । अनुपपात्तस्त्वग्रे दर्शविप्यते । 'यञ्चोक्तम्- “प्रकृति-पुरुषयोः संयोगस्त्वन्धपगुवत् ।" इति, तदयुक्तम् , यतस्तयोः संयोगः केन कृतः, किं प्रकृत्या ? आहोस्विद् आत्मना ? न तावत् प्रकृत्या, तस्याः सर्वगतत्वेन मुक्तात्मनो-ऽपि तत्संयोगप्रसङ्गात् । अथा-ऽऽत्मना, तर्हि स शुद्धचैतन्यस्वरूप आत्मा किमर्थं प्रकृतिमादत्ते ? अथा-ऽस्तु वा केनचित् कृतः संयोगः, किन्त्वसौ संयोगः किं सहेतुको निर्हेतुको वा ? यदि निर्हेतुकः, तदा मुक्तात्मनोऽपि तथाविधसंयोगो बलादापद्यते । अथ सहेतुकश्चेत् ,तर्हि तादृशसंयोगहेतुः किं प्रकृतिरस्ति ? उता-ऽऽत्मा? सांख्येरन्यस्य कस्यचिदप्यनभ्युपगमात् । आद्यपक्षे, सा प्रकृतिर्यथा संसात्मनः प्रकृतिसंयोगे हेतुः, तथा मुक्तात्मनो-ऽपि स्यात् , कूटस्थनित्यशुद्धचैतन्यस्वरूपत्वेनोभयोरप्यविशेषात् , नियामका-ऽभावाच्च । ___ अथ द्वितीयपक्षश्चेत् , तर्हि स आत्मा प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यमानः किं स्वयं प्रकृतिसंयुक्तः सन् हेतुर्भवति ? उत तद्वियुक्तः ? आये तस्या-ऽपि प्रकृतिसंयोगः कथम् ? इत्यनवस्था । द्वितीये पुनः स प्रकृतिरहित आत्मा शुद्धचैतन्यस्वरूपः सन् किमर्थं प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यत इति वक्तव्यम् , यदि निष्प्रयोजनम् , तर्हि मुक्तात्मनोऽपि प्रकृतिसंयोगप्रसङ्गः । यदि सप्रयोजनम् , ताल्लेखनीयं 'किं तत् प्रयोजनम्' इति । ननु पुरुषस्य दिदृक्षासद्भावात् प्रयोजनरूपेण दर्शनमिति चेत् , न, मुक्तानामपि दिदृक्षास्वीकारप्रसङ्गेन दर्शनापत्या तेषामपि प्रकृतिसंयोगप्रसक्तः। (१) पृ० ५४९ पं० १९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786