Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 709
________________ ५५१]. स्ववगसेढी [ गाथा-२६७ अपि च-धपङ्गुवदिति यो दृष्टान्तः प्रोक्तः सोऽपि प्रकृतेऽसङ्गत एव दृष्टान्तदार्शन्तिकयोर्वैषम्यात् । तथाहि - अन्धपवोश्चेतनत्वाद् 'इदमित्थमेवा ऽस्मदिष्टं कार्यं सेत्स्यतीत्यवधार्या-ऽन्योऽन्यापेक्षयोः तयोः प्रवृत्तिर्युक्ता, न तु प्रकृति-पुरुषयोः, प्रकृतेरचेतनत्वात् । एतेन प्रकृत्युपधानविलये स्वरूपेणा - ऽऽत्मनो ऽवस्थानं मोक्ष इत्यपि निरस्तम्, यतः संयोगस्यानुपपन्नत्वाद् वियोगो दुर्घटः, संयोगपूर्वकत्वाद्वियोगस्य । 'यच्चोक्तं "पुरुषस्य च चैतन्यशक्तिर्विषय परिच्छेदशून्या इति, तदप्य विचारिताभिधानम्, यतश्चिच्छक्तिर्विषयपरिच्छेदशून्या चेति परस्परविरुद्धं वचः । 'चितै संज्ञाने' चेतनम् चित्यते वाऽनयेति भावे करणे वा क्विप्प्रत्ययः । यदि सा स्वपरपरिच्छेदात्मिका नाऽभ्युपगम्यते, तदा सा चिच्छक्तिरेव न स्यात्, घटवत् । न चा-मूर्तायाश्चिच्छक्ते बुद्धौ प्रतिबिम्बोदयद्वारा विषयपरिच्छेदारोपो भवतीति वाच्यम्, प्रतिबिम्बस्य मूर्तधर्मत्वेनाऽमूर्तचिच्छक्तेराकाशवत् प्रतिबिम्वानुपपत्तेः । अपि च कर्तृत्व-भोक्तृत्वादिधर्मविरहेण पुरुषस्य सुखदुःखभोगाश्रयत्वव्यवहारो नोपपद्येत । न वाऽऽरोपिततद्द्भोगसम्बन्धेन तथाव्यवहारोपपत्तिः स्यादिति वाच्यम्, आरोपितसम्बन्धार्थमपि तथाभोगानारोपापेक्षया तथाभोगारोपस्य वैलक्षण्यप्रयोजकत्वेन पुरुषस्य नूतनस्वरूपापन्नत्वस्यावश्यकत्वात्, अप्रच्युतप्राचीनरूपस्य च सतः पुरुषस्याऽऽरोपितस्यापि सुखदुःखादिभोगस्य व्यपदेशा नईत्वात् । तत्प्रच्यवने तु प्रावतनरूपत्यागेनोत्तररूपाध्यासितत्वेन परिणामान्तरापच्या कूटस्थनित्यत्वहानिः । न च यथा स्फटिकादीनां तथापरिणाममन्तरेणाऽपि जपाकुसुमादीनामुपधानेन स्फटिकाकादौ रक्तिमाद्यारोपो भवत्येव, तथैव पुरुषस्य परिणाममन्तरेणाऽपि सुखादिभोगशालिप्रकृत्युपधानेन भोगारोपो भविष्यतीति वाच्यम्, स्फटिकादावपि तथापरिणामेनैव रक्तिमारोपसमर्थनात्, अन्यथा कथमन्धोपलादौ नारोपः ? तथापरिणामा ऽभ्युपगमे च बलादायातं चिच्छक्ते रारोपितकर्तृत्वादिधर्मविशिष्टपरिणामिनित्यत्वम् । 'यच्च “अचेतना-ऽपि” इत्यादि प्रोक्तम्, तदप्ययुक्तम्, न हि चैतन्यवति पुरुषे प्रतिसङ्क्रान्ते दर्पणस्य चैतन्या-ऽवाप्तिः, चैतन्या ऽचैतन्ययोरपरावर्तिस्वभावत्वेन शक्रेणाऽप्यन्यथा कर्तु - मशक्यत्वात् । किञ्च शरीरादेरप्येवं चेतनत्वप्रतीतिप्रसङ्गः, चेतनत्वसंसर्गस्याऽविशेषात् । न च शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेषो ऽस्तीति वाच्यम्, यतः कथञ्चित्तादात्म्यं विना को ऽन्यः संसर्गविशेषः ? आत्माऽह ष्टकृतकत्वादिविशेषस्य च शरीरादावपि भावात् । अपि च " अचेतना ऽपि चैतन्यवतीव प्रतिभासते" इत्यत्रेव शब्देनाऽऽरोपो ध्वन्यते । न चाऽऽरोप उपपद्यते, तस्य बाधज्ञान (१) प्र० ५४९ पं० २० । (२) पृ० ५४९ पं० २९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786