Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 696
________________ बौद्धाभिप्रायेण मोक्षस्वरूपम् ] मोक्षस्वरूपविचारः : [५३९ तत्साधनेषु च दोषानुपेक्ष्य शुचित्वादिगुणानारोपयति । गुणांश्च पश्यन् ममेद'मित्याद्यध्यवस्मन् सुखसाधनान्युपादत्ते,ततो यावदात्मदर्शनम् ,तावत् संसार एव । यदुक्तंप्रमाणवार्तिके श्रीधर्मकीर्तिना यः पश्यत्यात्मानं तत्राऽस्याहमिति शाश्वतः स्नेहः ॥ (१-२१९) स्नेहात सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते । गुणदर्शी परितृष्यन् ममेति सुखसाधनान्युपादत्ते ॥ (१-२२०) तेना-ऽऽत्माभिनिवेशो यावत् तावत् स संसारे। आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ।। (१-२२१) अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते।” इति । तथा च तदीया श्रीमनोरथनन्दिकृता वृत्तिः-"यः पश्यत्यात्मानं तत्राऽऽत्मनोऽस्य द्रष्टुरहमिति शाश्वतो-ऽनपायी स्नेहो भवति। स्नेहाद-आत्मस्नेहात्सुखेषु तृष्यतितृष्णावान् भवतीति, तृष्णा च सुखसाधनत्वेनाऽध्यवसितानां वस्तूनां दोषानशुचित्वादीन् तिरस्कुरुते प्रच्छादयति दोषतिरस्करणात् । गुणदर्शी-शुचित्वेनेष्टगुणान् पश्यन् परितृष्यन् ममेति ममेदं सुखमिति गर्ड मानस्तस्य-मुखस्य साधनानि गर्भगमनादीन्युपादत्ते । तेना-ऽऽत्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेश यावत्तावत् स आत्मदर्शी संसार एव । न केवलं जन्मप्रबन्धस्तस्य दोषा अपि समस्ताः सन्तीत्याह-आत्मनि सति ततोऽन्यस्मिन् परसंज्ञा-परबुडिर्भवति । स्वपरविभागाच्च कारणात् स्वपरयोर्यथाक्रमं परिग्रहो-ऽभिष्वङ्गो द्वेषः परित्यागस्तौ भवतः । अनयोरनुनयप्रतिषेधयोः सम्प्रतिबद्धाः सर्वे दोषारागमात्सर्येादयः प्रजायन्ते ।” इति। नैरात्म्यभावनातस्तु निरुपप्लवचित्सन्ततिलक्षणो मोक्षो जायत एव । नन्ववच्छेदकतादिसम्बन्धेन ज्ञानं प्रति तादात्म्यादिना शरीरादेः कारणत्वाद् मुक्त्यवस्थायां शरीरादिनिमित्तकारणविरहे ज्ञानस्य सम्भव एव नास्तीति तश्चित्सन्ततेः सम्भवः ? इति चेत् मैवम् , यतो न ज्ञानं प्रति नैयायिकादिवत् शरीरादीनां कारणत्वमभ्युपगम्यते, किन्तु पूर्वपूर्वविज्ञानक्षणानामेवोत्तरोत्तरविज्ञानक्षणं प्रति कारणत्वम् । न च सुषुप्तौ ज्ञाना-ऽभावेन तदुत्तरं कारणविरहाद् ज्ञानसन्ततिर्व्यवच्छिद्यतेति वाच्यम् , तत्रापि ज्ञानस्य सत्वात् । न च सुषुप्तावस्थायां ज्ञानसद्भावे जाग्रदवस्थातो विशेषो न स्यात् , उभयत्राऽपि स्वसंवेद्यज्ञानस्य सद्भावा-ऽविशेषादिति वाच्यम् ,यतः सुषुप्तौ 'मिद्धेना-ऽभिभूतत्वं ज्ञानस्या-ऽस्ति, अतो विशेषोऽस्त्युभयोरवस्थयोः। न च तथा-ऽप्यभिभूतज्ञानक्षणतो रागद्वेषकलुषितज्ञानक्षणतश्च क्रमेण कथमनभिभूतज्ञानक्षणस्य रागद्वेषविनिमुक्तज्ञानक्षणस्य चोत्पत्तिः स्याद् ? इति वाच्यम् , पूर्वपूर्वज्ञानक्षणानां तत्तदतिशयवत्वेना (१) अतिजाड्येनातिनिद्रया वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786