Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
खत्रगढी
[ गाथा-२६७
पदार्थदर्शनप्रबोधितप्राक्तन संस्कारस्य हीन्द्रियव्यापारवतः प्रमातुः स एवायमि' त्याकारेण प्रत्यभिज्ञा समुत्पद्यते ।
ननु स्यादयं दोषः, यद्यविशेषेणाऽन्यदृष्टं परः स्मरतीत्युच्येता-ऽस्माभिः । अस्मत्कथनं त्वेवम्-स्मरणक्षणस्याऽनुभवकारिक्षणेन सह कार्यकारणभावस्वीकारात् स्मृतिरुपपद्यते । तत्रैकसन्तानपतितानां क्षणानां तदुत्पत्तिसम्बन्धेन सम्बद्धानां पूर्वोत्तरक्षणयोर्हेतुहेतुमद्भावो निर्विवादः । तथा चानुभूतविज्ञानक्षणस्य स्वसन्तानेऽनुभवात्मकरमृतिबीजाधापकत्वम् । अतो नानुपपत्तिः स्मरणस्य, कालान्तरे स्मृत्यात्मककार्योत्पत्तेः । तदुक्तं बोधिचर्यावतारपञ्जिकायाम् - "कार्यकारणभावप्रतिनियमादेव स्मृत्य भावो ऽपि निरस्तः । एकस्यानुगमात्मनो ऽभावात् न स्मर्ता कश्चिदिह विद्यते, किं तर्हि ? स्मरणमेव केवलमारोपवशात् स्मर्यमाणवस्तुविषयम् । न च अत्र स्मर्तुरभावेऽपि कश्चिद् व्याघातः । अनुभूते हि वस्तूनि विज्ञानसंताने स्मृतिबीजाssधानात् कालान्तरेण संततिपरिपाकहेतोः कार्यमुत्पद्यते ।' इति चेत्, न, यतस्तादृशान्यत्वस्याऽपरान्यत्वाऽविशेषात् भवन्मते कारणस्य निरन्वयनाशाच्च कार्यस्येतरस्य च कारणेन सह समानरूपेणात्यन्तासम्बद्धत्वम् । फलतः कार्यवदितरस्यापि स्मरणत्वापत्तिः, इतरवद् वा कार्यस्याऽपि स्मरणत्वानुपपत्तिस्तदवस्थैव |
नाम
५४२ ]
अपि चानुभवक्षणस्य निरन्वयनाशात् तत्सन्ताने स्मृतिबीजाधानानुपपत्तिरेव, अन्यथा तत्सन्तान - तदितरसन्तानयोरनुभवक्षणासम्बद्धत्वाविशेषेणेतर सन्ताने कथं स्मृतिबीजाधानस्य नापत्तिः ? अपि च कार्यकारणभावात् स्मृतिरित्यत्र न कश्चिद् वादिप्रतिवादिप्रसिद्धो दृष्टान्तो ऽस्ति । ननु यथा रक्तकर्पासचीजे उप्ते फलं रक्तवर्णं लभ्यते, तथैव यस्मिन् सन्ताने वासनाऽधि - वसति, तत्रैव कर्मवासनायाः फलं भवति । यदुक्तम्
"यस्मिन्नेव हि संताने आहिता कर्मवासना ।
फलं तत्रैव संघते कर्पासे रक्तता यथा || १ ||" इति ।
तदेवं सन्तानेऽनुभव-स्मरणयोरैकाधिकरण्यमिति चेत्, न यत एतत् सर्वमप्यसुन्दरम् साधनदूषणयोरसम्भवात् । तद्यथा - अन्वयाद्यसम्भवाद् न साधनम्, नहि 'यत्र यत्र कार्यकारणभाव:, तत्र तत्र स्मृतिः, कर्पासे रक्ततावदि' त्यन्वयः सम्भवति, ना-ऽपि यत्र यत्र स्मृत्यभावः, तत्र तत्र न कार्यकारणभावः' इति व्यतिरेकः ।
'यत्र यत्रा -ऽन्यत्वम्, तत्र तत्र न स्मृतिरित्यत्र चासिद्ध्याद्यनुद्भावनाद् न दूपणम् । न हि 'ततोऽन्यत्वात्' इति हेतोः कर्पासे रक्ततावदित्यनेन कश्चिद् दोषः प्रतिपाद्यते भवन्मते कर्पास - स्याऽपि क्षणिकत्वेन कालभेदेन तस्या -ऽन्यत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786