Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 698
________________ बौद्धाभिप्रेतमोक्षस्वरूपखण्डनम् ] मोक्षस्वरूपविचारः [५४१ न च तपः कर्मशक्तीनां संकरेण क्षयकरणशीलमिति कृत्वैकरूपादपि तपसो विचित्रशक्तिकानां कर्मणां क्षय इति वाच्यम् , एवमभ्युपगमे स्वल्पक्लेशेनैवैकोपवासादिना-ऽप्यशेषस्य कर्मणः क्षयापत्तिः, अन्यथा शक्तिसाङ्कर्या-ऽनुपपत्तिः, अन्यत्रा-ऽप्युक्तम् कर्मक्षयादिमोक्षः स च तपसस्तच कायसन्तापः। कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत् स्यात् ॥१॥ अन्यदपि चैकरूपं तचित्रक्षयनिमित्तमिह न स्यात् । तच्छक्तिसंकरक्षयकारीत्यपि वचनमात्रं तु ॥२।। अक्लेशात् स्तोकेऽपि क्षोणे सर्वक्षयप्रसङ्गो यत् ।" इति । तस्माद् नैरात्म्यभावनाप्रकर्षविशेषतो निरुपप्लवा चित्सन्ततिर्मोक्ष इति स्थितम् । अथ प्रतिविधीयते- 'यत् तावदुक्तम्-'ज्ञानक्षणप्रवाह.' इत्यादि, तदविचारिताऽभिधानम् , ज्ञानक्षणप्रवाहव्यतिरिक्तं मौक्तिककणनिकरानुस्यूतैकसूत्रकल्पमन्वयिद्रव्यमात्मानमन्तरेण कृतनाशा-ऽकृता-ऽऽगमादिदोषप्रसङ्गात् स्मरणाद्यनुपपत्तेश्च ।। एतदुक्तं भवति–बौद्धास्तावज्ज्ञानक्षणपरम्परामात्रमेवात्मानं मन्यन्ते, न तु मुक्ताफलजाता-ऽनुस्यूतैकसूत्रकल्पमेकमन्वयि द्रव्यम् । अतस्तन्मते पूर्वज्ञानक्षणेन यत् सदनुष्ठानम् , असदनुष्ठानं वा कृतम् , तत्फलं न भुङ्क्ते पूर्वज्ञानक्षणः, तस्य निरन्वयविनष्टत्वात् । उत्तरक्षणेन च फलोपभोगस्वीकारे-ऽकृताऽऽगमः, तेन स्वयं तादृशानुष्ठानाकरणे-ऽपि तत्फलस्योपभोगात् । अथ संसारभङ्गदोषः-पूर्वकर्मानुसारेणैव जन्मान्तरं भवति । पूर्वज्ञानक्षणानां तु निरन्वयविनाशाद् न तेषां कश्चिदप्यभिसम्बन्ध उत्तरज्ञानक्षणैः सह । अतः केनोपभुज्यते पूर्वकर्माणि जन्मान्तरे ? तदुपभोगाऽभावे च किं जन्मान्तरम् ? तदभावे च संसारविलोपापत्तिः । मोक्षभङ्गदोषः-अपुनर्भावेन कर्मबन्धनाद् विमुक्तिर्मोक्षपदार्थः , स च बौद्धमते न घटते, आत्मन एवा-ऽभावात् । तथाहि-बौद्धमते-ऽन्वयिद्रव्यमात्मैव नास्ति, ततश्च कः प्रेत्य सुखीभवनाय यतिष्यते । संसारी ज्ञानक्षणः कथमपरज्ञानक्षणसुखाय घटिष्यते, ? न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः, क्षणस्य तु दुःखं स्वरसविनाशित्वात् तेनैव साधं ध्वस्तम् । न च सन्तानेन पूर्वोत्तरक्षणेषु सुख-दुःखाद्युपपत्तिरिति वाच्यम् , सन्तानस्या-ऽवास्तवत्वात् , वास्तवत्वे तु संज्ञान्तरेणा-ऽऽत्मन एवा-ऽभ्युपगमप्रसङ्गात् । ___ अथ स्मृत्यनुपपत्तिः,-पूर्वबुद्ध्यनुभूते-ऽर्थे नोत्तरबुद्धीनां स्मृतिः सम्भवति, ततो-ऽन्यत्वात्, सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टो-ऽर्थो-ऽन्येन स्मर्यते,अन्यथैकेन दृष्टो-ऽर्थः सर्वैः स्मर्येत । स्मरणा-ऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः, तस्याः स्मरणाऽनुभवयोरुभयोः सतोरेव सम्भवात् । (१) पृ० ५३८ पं० २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786