Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 695
________________ ५३८ ] खवगसेढी [ गाथा-२६७ भवति-अविद्या किं सद्रपा स्वीक्रियते ? उता-ऽसद्रूपा ? न तावत् प्रथमपक्षः, ब्रह्मण इव तस्या अपि निवृत्तेरसम्भवात् ,तन्निवृत्यभ्युपगमे चा-ऽविशेषेण ब्रह्मणोऽपि निवृत्तिप्रसङ्गात् । यदि चाऽसत्त्वरूपा, तदा सा नित्यनिवृत्ता, न तन्निवृत्तिः कृतिसाध्या । नन्वविद्या न सद्रूपा, नाऽसद्र पा, किन्त्वनिर्वचनीयेति चेत् , मैवम् , यया-ऽनिर्वचनीयतया-ऽविद्या तत्कार्याणि चा-ऽनिर्वचनीयानि भण्यन्ते, सा निर्वचनीया न वा ? प्रथमपक्षे सत्त्वेन निर्वचनीया चेत् , तीद्वैतभङ्गः, ब्रह्मभिन्नायास्तस्या अपि सच्चोपगमात् । असत्वेन चेत् , तर्हि कथं तया खरविषाणकल्पया-ऽविद्यया उपरञ्जनम् ? अथाऽनिर्वचनीयता-ऽप्यनिर्वचनीयेति द्वितीयपक्षः समाश्रियते, तदाऽनिर्वचनीयताया निर्वक्तुमशक्यत्वेन स्वरूपतो-ऽपहारः। (इति वेदान्तिस्वीकृतमोक्षस्वरूपस्य प्रतिविधानम् ।) त्रिदण्डिनस्त्वाहुः-आनन्दमयपरमात्मनि जीवात्मलयो मोक्ष इति । तत्र यदि परमात्मनि जीवात्मलयो नाम घ्राण-रसन-चक्षुः-श्रोत्र-स्पर्शाख्य-पञ्चज्ञानेन्द्रिय-वाक्पाणि-पाद-पायूपस्थलक्षणपञ्चकर्मेन्द्रिय-मन:-शब्द-स्पर्श-रूप-रस-गन्धतन्मात्रावस्थित--पृथिव्यप-तेजो--वाय्वाकाशरूपपञ्चभूतात्मकलिङ्गशरीरा-ऽपगमेन जीवात्मनः परमात्मत्वावाप्तिः, तर्हि सिद्धान्त एव, नामकर्मक्षयेण स्याद्वादिभिरपि तत्स्वीकारात् । अथ यदि लयो नामोपाधिशरीरनाश औपाधिकजीवस्य नाश इति चेत् , न, जीवनाशस्थ सर्वैः प्रेक्षावद्भिरकाम्यत्वेन तादृशमोक्षस्य पुरुषार्थत्वं न स्यात् । केपाश्चिद् दुःखजरितानां जीवनाशः काम्यत्वेन दृश्यत इति तु प्रेक्षावतां पर्षदि वक्त न युज्यते, अविवेकिनां तथाप्रवृत्तः । किश्च परमात्मनि परमब्रह्मस्फुल्लिङ्गकल्पजीवात्मलयो मोक्ष इत्यभ्युपगमे परमात्मन उपचयप्रसङ्गः स्यात् , घृतादौ घृतान्तरप्रवेशवत् , अपि चोपचये सैव ब्रह्मसत्तंति वक्तुं न शक्यते, सत्तान्तरस्वीकारे च भवत्सिद्धान्तपरित्यागापत्तेः। (इति त्रिदण्डिमतानुयायिमोक्षस्वरूपखण्डनम् ।) सौगतास्तु प्राहुः- निरुपप्लवा चित्सन्ततिर्मोक्ष इति । उक्तश्च चित्तमेव संसारो रागादिक्लेशवासितम् ।। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥१॥” इति । अयं भावः-ज्ञानक्षणप्रवाहव्यतिरिक्तस्या-ऽऽत्मनोऽसम्भवात् कस्या-ऽनन्तज्ञानसुखादिस्वभावत्वं संभवति ? मुक्तिस्वात्मदर्शिनो न भवत्येव, यतो य आत्मानं स्थिरत्वादिस्वरूपं पश्यति, तस्यात्मनि स्थिरत्वादिगुणदर्शनेन स्नेहो भवति, स्नेहाच्च सुखादिषु तृष्णाशीलः सन् सुखादिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786