Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 693
________________ ५३६] खबगसेढी [गाथा-२६७ नस्वभावश्च पूर्वसुखज्ञानादिक्षणः । अत एव कथञ्चिदनित्यत्वपक्षे न कश्चिद् दोषः । न च संसारावस्थायां चरमज्ञानादिक्षणस्योत्तरसुखज्ञानाद्युत्पादनस्वभावता-ऽसिद्धति वाच्यम् , यतोऽजनकत्वेन तस्याऽर्थक्रियाकारित्वविरहादवस्तुत्वापत्तेस्तजनकस्य द्विचरमसुखज्ञानादिक्षणस्या-ऽवस्तुत्वम् , ततश्च तजनकस्य त्रिचरमसुखज्ञानादिक्षणस्येत्येवं निखिलसन्तानस्या-ऽवस्तुत्वप्रसङ्गः । "कृतश्चायं विवेको मुक्तिद्वात्रिंशिकायामपि ऋजुसूत्रादिभिर्ज्ञानसुखादिकपरम्परा । व्यङ्ग चमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् ॥ १॥” इति। व्यवहारनयानुसारेण तु प्रयत्नसाध्यः कर्मक्षयो मोक्षः। कर्मक्षयश्चाऽस्मिन् ग्रन्थे विस्तरेण दर्शित एव । ___ यच्चा-ऽनन्यत्वेन श्रुतौ श्रवणम् "विज्ञानमानन्दं ब्रह्म” इति । तदपि नास्मदभ्युपगमवाधकम् , समस्तज्ञेयव्यापिनो ज्ञानस्या-ज्वैषयिकस्य चा-ऽऽनन्दस्य स्वसंवेदितस्य मोक्षावस्थायां सकलकर्मरहितात्मस्वरूपब्रह्मा-ऽभेदेन कथञ्चिदभीष्टत्वात् ।। __ यच्चोकम् “मुमुक्षुप्रयत्नेन तु यदाऽनाद्यविद्या विनिवर्तते,तदा-ऽऽनन्दस्वरूपप्रतिपत्तिर्भवति,सैव मोक्षः" इत्यभिहितम् ,तत्तु युक्तमेव,अष्टविधपारमार्थिककर्मप्रवाहरूपाऽनाद्यविद्याविलयेना-ऽनन्तसुखज्ञानादिस्वरूपप्रतिपत्तिलक्षणमोक्षप्राप्तेरिष्टत्वात् । नवरं कर्मप्रवाहरूपा-ऽनाद्यविद्या परिणामिनी पौद्गलिकी आत्मतो व्यतिरिक्ता वस्तुस्वरूपा प्रतिपत्तव्या, न तु तुच्छरूपा । या च"आनन्दं ब्रह्मणो रूपंतच्च मोक्षेऽभिव्यज्यते ।" इति श्रतिदर्शिता ,साऽपि नाऽस्मत्पक्षबाधिका, अभिव्यक्तेः स्वसंविदिता-ऽऽनन्दस्वरूपतया तदवस्थायामात्मन उत्पत्तेरभ्युपगमात् । ये पुनरेकान्तनित्यसुखसिद्धयर्थमनुमानप्रयोगाः प्रदर्शिताः, ते तु न युक्ताः, तोरनैकान्तिकत्वादिदोषा-ऽऽक्रान्तत्वात् । तथाहि-आत्मा सुखस्वभावः,अन्यन्तप्रियबुद्धिविषयत्वात् ,अनन्यपरतयोपादीयमानत्वाच्चेत्यत्र अत्यन्तप्रियबुद्धिविषयत्वमनन्यपरतयोपादीयमानत्वञ्च यत्साधनमुप. न्यस्तम् , तदनैकान्तिकम् , दुःखाभावेऽपि तस्य सद्भावात् । अत्यन्तप्रियबुद्धिविषयत्वञ्चा-ऽसिद्धम् , दुःखितायामप्रियबुद्धपि मद्भावात् । अनन्यपरतयोपादीयमानत्वमप्यसिद्धम् , सुखाद्यर्थमुपादानात् । एतेन यदपि "आत्मा सुखस्वभावः, वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वाद् निरुपचरितप्रेयोबुद्धिविषयत्वादा" इत्युक्तम् , तदपि प्रत्युक्तम् , प्रागुक्ताशेषदोषानुषङ्गात् । मुख्यप्रेयोबुद्धिविषयत्वं निरुपचरितप्रेयः शब्दवाच्यत्वञ्चाऽसिद्धम् , दुःखितायां तदभावात् ।। विरुद्धश्च हेतुद्वयम् , सुखस्वभावत्वविपरीताया दुःखाभावस्वभावताया एवा-ऽस्मात् सिद्धः, तथाहि--अयमात्मा दुःखाभावस्वभावः, वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वाद् निरुपचरितप्रेयःशब्दवाच्यत्वाद्वा रागिणां वैषयिकदुःखाभाववदिति । (१) पृ० ५२६ पं०७ (२) पृ० ५२६ पं० ८ । (३) पृ० ५२६-५२७ (४, पृ० ५२६ पं० १८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786