Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 692
________________ संग्रहनयेन ऋजुसूत्रादिनयेन च मोक्षविचारः मोक्षस्वरूप विचारः [ ५३५ 3 असदेतत् सर्वम्, अस्मदभिप्राया-परिज्ञानेन प्रलपितत्वात् न हि स्याद्वादिभिरेकान्तेन नित्यं सुखसंवेदनं स्वीक्रियते, नाऽप्येकान्ततोऽनित्यम्, किन्तु सुखवद् नित्यानित्यमभ्युपगम्यते, अतो न कश्चन दोषः । द्रव्यतो नित्यं पर्यायतश्चाऽनित्यं सुखज्ञानादिकमात्मनि स्वीकुर्वतां स्याद्रादिनामयं विवेकः – सङ्ग्रहनयानुसारेण आत्मनः सुखज्ञानादिस्वभावः सेन्द्रियशरीराद्यपेक्षाकारणरूपावरणेन प्रच्छाद्यते गृहा-ऽवस्थितप्रकाश्यपदार्थ प्रकाशकत्वस्वभावः प्रदीप इव तदावारकशरावादिना, सेन्द्रियशरीराद्यपेक्षाकारणरूपाऽऽवरणापगमे तु जीवस्य विशिष्ट प्रकाश्यपदार्थप्रकाशकत्वस्वभावो ऽयत्नसिद्ध:, शरावाद्यपगमे प्रदीपस्येवेति । अत एव कथञ्चिद् नित्यत्वपक्षे न दोषः । यत न च शरीराद्यपेक्षाकारणविरहाद् मुक्तौ सुखज्ञानादिकं न सम्भवतीति वाच्यम्, आवृतसुखज्ञानादिकं प्रत्येव शरीरादीनां कारणता, न त्वनावृतसुखज्ञानादिकं प्रति । ततश्च मुक्तौ न सुखज्ञानादिकं विरुध्यते । यदि सेन्द्रियशरीरादिरूपाणामावारकाणामभावात् सुखज्ञानादीनामभावः प्रेर्यते, तर्हि तुल्ययुक्त्या प्रदीपावारकाणां शरावादीनामभावे प्रदीपोच्छेदप्रसङ्गः । ननु शरावादीनां प्रदीपं प्रति न जनकत्वमिति न शरावाद्यभावे प्रदीपस्याऽभावः, सुखज्ञानादिकं प्रति तु शरीरादीनां जनकत्वमिति स्यादेव शरीराद्यभावे सुखज्ञानाद्यभाव इति चेत्, उच्यते -पद्यपि शरावादीनां प्रदीपं प्रति न जनकता, तथाप्यावृतप्रदीपपरिणतिं प्रति न केनचित् निवारयितुं शक्या, यदि चाऽऽवृतप्रदीपपरिणतिं प्रति शरावादीनां जनकत्वं न स्यात्, तदा शरावादीनामावारकत्वमपि न भवेत् । तस्मात् प्रदीपं प्रति शरावादीनां जनकत्वविर हेऽप्यावृतप्रदीपपरिणतिं प्रति जनकताऽस्ति, एवं प्रकृतेऽध्यावृतसुखज्ञानादिकं प्रति शरीरादीनां कारणत्वमस्त्येव, न त्वनावृत सुखज्ञानादिकं प्रति । ततश्चन काचिदनुपपत्तिरिति । अपि चोपलभ्यते संसारावस्थायामपि वासीचन्दनकल्पानां समवृत्तीनां तस्यैव भावनाविशिष्टध्याना-ऽवस्थितानां सेन्द्रियशरीरादिव्यापाराऽजन्यः परमाह्लादरूपोऽनुभवः, वशादुत्तरोत्तरावस्थामासादयतः परमकाष्टागतिः संभाव्यत एव । ऋजुसूत्रादिनयानुसारेण त्वात्मनः स्वरूपभूतानन्दज्ञानादिस्वरूपता मोक्षावस्थायामुत्पद्यत एव, शुद्धनयैरुत्तरोत्तर विशुद्धपर्याय मात्राभ्युपगमाद्, सुखज्ञानादीनां क्षणस्वरूपतायाः क्षणसत्तयाऽपि सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् । यद्येकान्तनित्यस्या ऽप्रच्युतानुत्पन्नस्थिरैकस्वभावता आत्मनोऽभ्युपगम्यते, तर्हि तस्य वैषयिकसुखदुःखोपभोगोऽपि नोपपद्यते, आत्मनि तादृशोपभोगस्वरूपस्य प्राक्तना भोगस्वरूपतो भिन्नत्वात् । स च स्वरूपभेदोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावात्मनि कथं सङ्गच्छेत १ एकस्वभावस्याऽन्यस्वभावस्वीकारेण स्वस्वभाव परित्यागप्रसक्तेः सुखज्ञानादिकं चोत्तरसुखज्ञानाद्युत्पादनस्वभावम् यच्च यदा यत्स्वभावम् " 9 तत् तदा तदुत्पादने ना-ऽन्यापेक्षम्, यथाऽन्त्या बीजादिकारणसामग्रयङ्करोत्पादने । तदुपाद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786