Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 670
________________ नैयायिकमतखण्डनम् । मोक्षस्वरूपविचारः [ ५१३ अथ विशेषरूपं सन्तानत्वं हेतुः । तत्र विकल्पचतुष्कमवतरति-(१) किमुपादानोपादेयभूतघुद्धयादिक्षणलक्षणप्रवाहरूपम् ?(२) उत कार्यकारणभावलक्षणप्रवाहरूपम् ? (३) आहोस्वित् स्वतन्त्रम् अपरापरक्षणोत्पत्तिमात्रम् ? (४) अथवा एकाश्रया-ऽपरापरक्षणोत्पत्तिमात्रम् ? इति । तत्र न तावदाद्यो विकल्पः, तादृशसन्तानत्वस्याऽन्यत्रा'-ऽप्रवृत्त्या-ऽसाधारणाऽनैकान्तिकत्वाद् अभ्युपगमविरोधप्रसङ्गाच्च । अभ्युपगमविरोधश्चेत्थम्-न खलु नैयायिक-वैशेषिकादिभिक्षुद्धयादिक्षणानामुपादानोपादेयभावः स्वीक्रियते, तस्य सौगतानां सम्मतत्वात् , नैयायिकादिभिस्तु समवायिकारणाऽऽत्मतो-ऽसमवायिकारणा-ऽऽत्म-मनःसंयोगतो-ऽदृष्टादेश्च निमित्तकारणादात्मगुणोत्पत्तिस्वीकारात् । एतेनैव द्वितीयपक्षोऽपि प्रतिविहितः, बुद्धयादिक्षणानां कार्यकारणभावस्य तैरनङ्गीकारात् । प्रलयप्रलीन-बुद्धयादेरप्यात्मन एव पुनर्बुद्धयाधुत्पादाङ्गीकारात् ।। तृतीयपक्षेऽपि व्यभिचारः, अपरा-ऽपरेषामुत्पादुकानां घट-पट-कटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छेदात् । चतुर्थपक्षोऽपि न रमणीयः, यतस्तादृशं सन्तानत्वं नास्ति प्रदीप इति साधनविकलो दृष्टान्तः । परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् । ____ अपि च सन्तानत्वमपि भविष्यति, अत्यन्तानुच्छेदश्चाऽपीति, विपर्यये हेतोर्वाधकप्रमाणाऽभावेन सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः । विरुद्धश्चाऽयं सन्तानत्वहेतुः, शब्द-बुद्धि-प्रदीपादिष्वप्यत्यन्तानुच्छेदवत्येव सन्तानत्वस्य व्यवस्थानात् । न ह्येकान्तनित्येष्विवैकान्ता-ऽनित्येष्वप्यर्थक्रियाकारित्वलक्षणं सचं संभवति,तत्र तत्र स्थाद्वादग्रन्थेषु प्रतिषिद्धत्वात् । साध्यवैकल्यं च दृष्टान्तस्य, प्रदीपादेरत्यन्तोच्छेदा-ऽभावात् , तैजसपरमाणूनां खलु भास्वररूपपरित्यागेनाऽन्धकाररूपतया-ऽवस्थानात् । न च प्रदीपादीनामुत्तरपरिणामस्या-ऽप्रत्यक्षत्वेन तेषामुच्छेदो विनिश्चेतु शक्यः, अन्यथा परमाणूनां पारिमाण्डल्यगुणाधारतया प्रत्यक्षतो-ऽगृहीतानामसचं प्रसज्येत । अथ तेषां तद्रूपतया-ऽनुमानात् प्रतिपत्ते ऽयं दोष इति चेत् , प्रकृतेऽप्यनुमानात् सा प्रतिपत्तिः किं नेष्यते । यथाहि स्थूलकार्यप्रतिपत्तिस्तदपरसूक्ष्मकारणमन्तरेणाऽसम्भविनी परमाणुसत्तामवबोधयति, तथा मध्यस्थितिदर्शनं पूर्वापरकोटिस्थितिमन्तरेणाऽसम्भवि तां साधयतीति । न च धस्तस्या-ऽपि प्रदीपस्य विकारान्तरेणा-ऽवस्थाना-ऽभ्युपगमे प्रत्यक्षबाधेति वाच्यम् , वारिस्थिते तेजसि भास्वररूपा-ऽभ्युपगमेऽपि तदाधोपपत्तेः । अथोष्णस्पर्शस्य भास्वररूपाधिकरणतेजोद्रव्याऽभावेऽलम्भवादनुमानतस्तत्रानुद्भूतभास्वररूपस्य परिकल्पनम् ,तर्हि प्रदीपादेरनुपादनोत्प (१) दृष्टान्ते प्रदीपे (२) उष्णवारिस्थिते । (३) वह्नौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786