________________
नैयायिकमतखण्डनम् । मोक्षस्वरूपविचारः
[ ५१३ अथ विशेषरूपं सन्तानत्वं हेतुः । तत्र विकल्पचतुष्कमवतरति-(१) किमुपादानोपादेयभूतघुद्धयादिक्षणलक्षणप्रवाहरूपम् ?(२) उत कार्यकारणभावलक्षणप्रवाहरूपम् ? (३) आहोस्वित् स्वतन्त्रम् अपरापरक्षणोत्पत्तिमात्रम् ? (४) अथवा एकाश्रया-ऽपरापरक्षणोत्पत्तिमात्रम् ? इति ।
तत्र न तावदाद्यो विकल्पः, तादृशसन्तानत्वस्याऽन्यत्रा'-ऽप्रवृत्त्या-ऽसाधारणाऽनैकान्तिकत्वाद् अभ्युपगमविरोधप्रसङ्गाच्च । अभ्युपगमविरोधश्चेत्थम्-न खलु नैयायिक-वैशेषिकादिभिक्षुद्धयादिक्षणानामुपादानोपादेयभावः स्वीक्रियते, तस्य सौगतानां सम्मतत्वात् , नैयायिकादिभिस्तु समवायिकारणाऽऽत्मतो-ऽसमवायिकारणा-ऽऽत्म-मनःसंयोगतो-ऽदृष्टादेश्च निमित्तकारणादात्मगुणोत्पत्तिस्वीकारात् ।
एतेनैव द्वितीयपक्षोऽपि प्रतिविहितः, बुद्धयादिक्षणानां कार्यकारणभावस्य तैरनङ्गीकारात् । प्रलयप्रलीन-बुद्धयादेरप्यात्मन एव पुनर्बुद्धयाधुत्पादाङ्गीकारात् ।।
तृतीयपक्षेऽपि व्यभिचारः, अपरा-ऽपरेषामुत्पादुकानां घट-पट-कटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छेदात् ।
चतुर्थपक्षोऽपि न रमणीयः, यतस्तादृशं सन्तानत्वं नास्ति प्रदीप इति साधनविकलो दृष्टान्तः । परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् ।
____ अपि च सन्तानत्वमपि भविष्यति, अत्यन्तानुच्छेदश्चाऽपीति, विपर्यये हेतोर्वाधकप्रमाणाऽभावेन सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः ।
विरुद्धश्चाऽयं सन्तानत्वहेतुः, शब्द-बुद्धि-प्रदीपादिष्वप्यत्यन्तानुच्छेदवत्येव सन्तानत्वस्य व्यवस्थानात् । न ह्येकान्तनित्येष्विवैकान्ता-ऽनित्येष्वप्यर्थक्रियाकारित्वलक्षणं सचं संभवति,तत्र तत्र स्थाद्वादग्रन्थेषु प्रतिषिद्धत्वात् । साध्यवैकल्यं च दृष्टान्तस्य, प्रदीपादेरत्यन्तोच्छेदा-ऽभावात् , तैजसपरमाणूनां खलु भास्वररूपपरित्यागेनाऽन्धकाररूपतया-ऽवस्थानात् । न च प्रदीपादीनामुत्तरपरिणामस्या-ऽप्रत्यक्षत्वेन तेषामुच्छेदो विनिश्चेतु शक्यः, अन्यथा परमाणूनां पारिमाण्डल्यगुणाधारतया प्रत्यक्षतो-ऽगृहीतानामसचं प्रसज्येत । अथ तेषां तद्रूपतया-ऽनुमानात् प्रतिपत्ते ऽयं दोष इति चेत् , प्रकृतेऽप्यनुमानात् सा प्रतिपत्तिः किं नेष्यते । यथाहि स्थूलकार्यप्रतिपत्तिस्तदपरसूक्ष्मकारणमन्तरेणाऽसम्भविनी परमाणुसत्तामवबोधयति, तथा मध्यस्थितिदर्शनं पूर्वापरकोटिस्थितिमन्तरेणाऽसम्भवि तां साधयतीति ।
न च धस्तस्या-ऽपि प्रदीपस्य विकारान्तरेणा-ऽवस्थाना-ऽभ्युपगमे प्रत्यक्षबाधेति वाच्यम् , वारिस्थिते तेजसि भास्वररूपा-ऽभ्युपगमेऽपि तदाधोपपत्तेः । अथोष्णस्पर्शस्य भास्वररूपाधिकरणतेजोद्रव्याऽभावेऽलम्भवादनुमानतस्तत्रानुद्भूतभास्वररूपस्य परिकल्पनम् ,तर्हि प्रदीपादेरनुपादनोत्प
(१) दृष्टान्ते प्रदीपे (२) उष्णवारिस्थिते । (३) वह्नौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org