________________
५१४ ]
खत्रगसेढी
[ गाथ-२६७
तिवदन्त्यावस्थातोऽपरा पर परिणामा -ऽऽधारत्वमन्तरेण सच्चकृतकत्यादेरनुपपत्तेरत्यन्ता-S -ऽनुच्छेदोऽपि परिकल्प्यताम्, अविशेषात् । प्रयोगश्चाऽयम् - पूर्वापरस्वभावपरिहारा ऽङ्गीकारस्थितिलक्षणपरिणामवान् प्रदीपः, सच्चात् कृतकत्वाच्च घटादिवद् । इत्थमनुमानतोऽपि प्रदीपादि सन्तानाऽनुच्छेदः किं न कल्प्यते, अन्यथा सन्तानचरमक्षणस्य क्षणान्तराऽजनकत्वेना-ऽर्थक्रियाकारित्वविरहादस सिद्धे पूर्व पूर्व क्षणानामपि तथाभूतत्वप्रसङ्गाद् विवक्षितक्षणस्याऽप्यसच्चं स्यात् । ततश्च दृष्टान्तस्य प्रदीपस्य बुद्धयादिपक्षस्य चाऽसच्चप्रसङ्गात् कथमनुमानं प्रवर्तेत ? इत्थं शब्द-बुद्धि-प्रदीपादीनां समाने नात्यन्तिक उच्छेदोऽभ्युपगन्तव्यः, अन्यथा विवक्षितक्षणेऽपि सच्चाभावः स्यात् । तदेवं सर्वत्राऽत्यन्ताऽनुच्छेदवत्स्वेव बुद्धिप्रदीपादिषु सन्तानत्वस्य वृत्तेः कथं न तस्य विरुद्धत्वम् ?
सत्प्रतिपक्षश्चाऽयं सन्तानत्व हेतुः, तथाहि बुद्ध्यादि सन्तानो नाऽत्यन्तोच्छेदवान्, , सर्वप्रमाणाऽनुपलभ्यमानतथोच्छेदत्वात् । यो हि सर्वप्रमाणानुपलभ्यमानतधोच्छेदः, न स तवेनाभ्युपगम्यः, यथा पार्थिवपरमाणुपाकजरूपादिसन्तानः, तथा चाऽयम्, तस्मान्नाऽत्यन्तोच्छेदवानिति ।
न च नवानामात्म विशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वादित्यनुमानप्रमाणादेव सन्तानोच्छेदोपलब्धेः सर्वप्रमाणाऽनुपलभ्यमानतथोच्छेदत्वमसिद्धमिति वाच्यम्, कदोषदुष्टत्वेनाऽननुमानत्वप्रतिपादनात् ।
कालात्ययापदिष्टश्वायं सन्तानत्वहेतुः, विपरीतार्थोपस्थापकोत्ताऽनुमानेन बाधितपक्षनिदेशानन्तरं प्रयुक्तत्वात् ।
किश्च नवानामात्म विशेषगुणानां सन्तानो ऽत्यन्तमुच्छिद्यते, सन्तानत्वादित्यनुमानात् किमिन्द्रियजानां बुद्ध्यादीनामुच्छेदः साध्यमानोऽस्ति ? उताऽतीन्द्रियाणाम् ?
अस्था
तत्राद्यपक्षे सिद्धसाधनम्, अस्माभिरपि तत्र बुद्धयादिगुणानामिन्द्रियजा नामुच्छेदस्वीकारात् । द्वितीयपक्षोऽपि न निरवद्यः, अतीन्द्रियाणां तेषामत्यन्तोच्छेदे मुक्तौ कस्यचिदपि प्रवृच्यनुपपत्तेः । सर्वो हि मोक्षार्थी निरतिशय सुखज्ञानादिप्राप्त्यभिलाषेणैव प्रवर्तते, न पुनः सकलबुद्ध्यादिविशेषगुणोच्छेदाभिलाषेण तादृशोच्छेदस्य केनचिदप्यनभिलपणीयत्वात् । न कोऽपि स्वात्मानं शिलाशकलकल्पमपगतसकलसंवेदनं जडं सम्पादयितुं प्रयतते । यदि मोक्षावस्थायां स्वात्मा पात्राणदेशीयो जडो भवेत् तर्हि कृतं मोक्षेण, संसार एव वरमस्तु । अत एव भवदुपहासोऽपि श्रूयते
1
वरं वृन्दावने रम्ये शृगालैश्च सहोषितम् ।
न तु वैशेषिकों मुक्तिं गोतमो गन्तुमिच्छति ॥ १ ॥” इति अपि च उपहासं विदधता महाकविश्रीहर्षेणा-ऽपि नैषधमहाकाव्ये भणितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org